नात् ॥ ३०॥
परोक्षज्ञानस्य यथाऽश्रद्धा प्रतिबंधिका तथैवापरोक्षज्ञानस्याविचारः प्रतिबंधक इत्याह, परोक्ष इति ।
परोक्षज्ञानमश्रद्धा प्रतिबध्नाति नेतरत् । |
स्पष्टोऽर्थः ॥ ३१॥
ननु विचार्याप्यपरोक्षज्ञानाभावे किम् कर्तव्यमित्याशंक्यापरोक्षसिद्धिपर्यन्तं विचारयेदित्याह, विचार्येति ।
विचार्याप्यापरोक्ष्येण ब्रह्मात्मानं न वेत्ति चेत् । |
शास्त्रादवगतार्थं विचार्यापि । मनननिदिध्यासने कृत्वाऽपि ब्रह्मात्मानं ब्रह्माभिन्नमात्मानमापरोक्ष्येण न वेत्ति चेद्विचारस्यापरोक्ष्यावसानत्वात् “आवृत्तिरसकृदुपदेशात्” (ब्र.सू. १.१.१), इति सूत्रबलात्, भूयो भूयो विचारयेत् । सभ्यग्विचारसंपत्तये तत्त्वमसीति नवकृत्व उपदिदेश भगवानारुणिः ॥ ३२ ॥
पौनःपुन्येनापि साक्षात्कारासिद्धौ विचारो निरर्थकः स्यादित्यतआह, विचारयन्निति ।
विचारयन्नामरणं नैवात्मानं लभेत चेत् । |
आमरणं विचारयन्नप्यात्मानं न लभेत न साक्षाकारोति यदि तर्हि प्रतिबंधक्षये सति साक्षात्कारे प्रतिबंधस्य क्षये सति जन्मान्तरे आपरोक्ष्यं लभेतैव प्रतिबन्धस्तु ४९ श्लोके विवृतः ॥३३॥
तत्र प्रमाणमाह, इहेति ।
इहवाऽमुत्र वा विद्यत्येवं सूत्रकृतोदितम् । |