पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
३८३
कल्याणपीयूषव्याख्यासमेता

 "ऐहिकमप्यप्रस्तुतप्रतिबंधे तद्दर्शनादि"ति, (ब्र.सू.३.४.५१) सूत्रे इहवाऽस्मिन् जन्मनि वाऽमुत्र परलोके वा विद्या ज्ञानमुदेतीत्येवं सूत्रकृता व्यासमहर्षिणोदितम् । सूत्रस्यायमर्थः-अप्रस्तुतप्रतिबंधे, प्रस्तुताः विद्यासाधनभूताः श्रवण- मनननिदिध्यासाः, तेषां प्रतिबंधो देहाद्यभिमानरूप आतंकस्तस्याभावः, तस्मिन् सति विद्योदयस्यातंकाभावे इत्यर्थः । ऐहिकं ज्ञानमस्मिन् जन्मन्येव ब्रह्मसाक्षात्कारः संपद्यते । यदा प्रतिबंधकनिवृत्तिस्तदा ब्रह्मसाक्षात्कारः। कुतः ? तद्दर्शनात् । वामदेवादिषु तस्य जन्मान्तरानुष्ठितमननादिसाधनेनान्यस्मिन् जन्मनि प्रतिबंधक्षये सति विद्योदयस्य दर्शनात् । विद्योदये इहामुत्रेति नियमाभावो “अपि"ना सूच्यते । सति प्रतिबंधकेऽस्मिन् जन्मनि विद्योदयाभावे श्रुतिं प्रमाणयति, श्रृण्वन्त इति । “श्रृण्वन्तोऽपि बहवो यं न विद्युः", (कठ. १. २. ७.) इति हि श्रुतिः । श्रृण्वन्तोऽपि विचारयन्तोऽपि बहवोऽसंस्कृतचित्तवृत्तयो यमात्मानं न विदुर्न साक्षात्कुर्वन्तीति तस्या अर्थः ॥ ३४ ॥

 प्राक्तनजन्मकृतश्रवणादेरुत्तरे जन्मनि फलकारित्वमिति श्रुत्यन्तरार्थकथनेन विशदयति, गर्भ इति ।

गर्भ एव शयानस्सन् वामदेवोऽवबुद्धवान् ।
पूर्वाभ्यस्तविचारेण यद्वदध्ययनादिषु ॥ ३५ ॥

 पूर्वाभ्यस्तविचारेण पूर्वस्मिन् जन्मन्यसकृदाचरितो मननादिरूपो यो ब्रह्मविचारस्तेन वामदेवो मातृगर्भे एव शयानः सन् ब्रह्मतत्त्वमवबुद्धवान् । “तद्धतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च" (बृ.१.४.१०), इति श्रुतेः । तत्र दृष्टान्तमाह, यद्वदिति । अध्ययनादिषु, अत्रादिशब्देन शिल्पादि दीर्घकालाभ्यस्तविद्या गृह्यन्ते । तेषु तदानीम् फलजननेऽपि कालान्तरे फलोत्पत्तिर्यद्वत्तथेत्यर्थ: ॥३५ ॥

 “यद्वदध्यनादिष्वि"त्युक्तं दृष्टान्तं विवृणोति, वह्निति ।

बहुवारमधीतेऽपि तदा नायाति चेत्पुनः ।
दिनान्तरेऽनधीत्यैव पूर्वाधीतं स्मरेत्पुमान् ॥ ३६ ॥

 स्पष्टोऽर्थः ॥ ३६ ॥