पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८४
[ध्यानदीप
पञ्चदशी

 दृष्टान्तान्तरमाह, कालेनेति ।

कालेन परिपच्यन्ते कृषिगर्भादयो यथा
तद्वदात्मविचारोऽपि शनैः कालेन पच्यते ॥ ३७ ॥

 गर्भो मातृगर्भस्थपिंडः । ते यथा कालेन परिपक्वतां गच्छन्ति तथाऽऽत्मविचारोऽपि कालेनैव परिपक्वतां गच्छतीति भावः ॥३७॥

 भूयो भूयस्तत्त्वविचारे कृतेऽपि फलाभावे वार्तिककारोदाहृतं कारणमाह, पुनरिति ।

पुनःपुनर्विचारेऽपि त्रिविधप्रतिबंधतः ।
न वेत्ति तत्त्वमित्येतद्वार्तिके सम्यगीरितम् ॥ ३८ ॥

 स्पष्टोऽर्थः ॥३८॥

फलोद्गमे प्रतिबन्धविचारः ।

  प्रतिबंधत्रयस्य क्षये सत्यात्मज्ञानमुदेतीति प्रदर्शयन् प्रतिबंधानाह,कुत इति ।

कुतस्तद्ज्ञानमितिचेत्तद्धि बंधपरिक्षयात् ।
असावपि च भूतो वा भावी वा वर्ततेऽथवा ॥ ३९॥

 तर्हि तद्ज्ञानमात्मतत्त्वस्य ज्ञानं कुत उदेति चेत्, बंधपरिक्षयात्तदुदेति हि । प्रतिबंधत्रयं विवृणोति, असाविति । “असौ प्रतिबंधः भूतः, भावी, अथवावर्तते, वर्तमानकालिको वेति त्रिविधः ॥ ३९॥

 अस्मिन्नर्थे सदृष्टान्तां श्रुतिप्रसिद्धिमाह, अधीतेति ।

अधीतवेदवेदार्थोऽप्यत एव न मुच्यते ।
हिरण्यनिधिदृष्टान्तादिदमेव हि दर्शितम् ।।४० ।।

 अतएव त्रिविधप्रतिबंघस्य सद्भावादेवाधीतवेदवेदार्थोऽपि न मुच्यते । हिरण्यनिधिदृष्टान्तात्, यथा हिरण्यनिध्युपरि संचरन्नपि निधिशास्त्रज्ञानेन तं न जानाति, तद्वदिदमेव सति प्रतिबंधे न मुच्यत इत्येतत् "यथा हिरण्यनिधिं निहि तमक्षेत्रज्ञाः" (छां, ८. ३.२) इति श्रुत्या दर्शितमित्यर्थः ॥ ४०॥