पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
३८५
कल्याणपीयूषव्याख्यासमेता

 भूतप्रतिबंधं दृष्टान्तयति, अतीतेनेति ।

अतीतेनापि महिषीस्नेहेन प्रतिबंधतः ।
भिक्षुस्तत्त्वं न वेदेति गाथा लोके प्रतीयते ॥ ४१ ॥

 भिक्षुः कश्चन यतिरत्तीतेन गृहस्थाश्रमे संप्राप्तेन महिषीस्नेहेन प्रतिबंधतः स्नेहरूपात्प्रतिबंधात् गुरुणोपदिष्टं तत्वं न वेदेति गाथा लोके प्रतीयते ॥४१॥

 प्रतीकारे ज्ञानमुदेतीत्याह, अनुसृत्वेति ।

अनुसृत्य गुरुः स्नेहं महिष्यां तत्त्वमुक्तवान् ।
ततो यथावद्वेदैष प्रतिबंधस्य संक्षयात् ॥ ४२ ॥

 उपदेशकुशलो गुरूश्शिष्यस्य महिष्यां विद्यमानं स्नेहमनुसृत्य महिष्युपाधिकस्य ब्रह्मणस्तत्वमुक्तवान् । ततो यथावदेष यतिः प्रतिबंधस्य संक्षयात् । तत्त्वं वेद ॥ ४२॥

 वर्तमानप्रतिबंधमुदाहरति, प्रतिबंध इति ।

प्रतिबंधो वर्तमानो विषयासक्तिलक्षणः ।
प्रज्ञामान्द्यम् कुतर्कश्च विपर्ययदुराग्रहः ॥ ४३ ॥

 विषयासक्तिलक्षणः प्रज्ञामान्द्यम् बुद्धेर्मान्द्यम्, कुतर्कः केवलयुक्तिवादः विपर्यययदुराग्रहः तत्त्वस्य विपर्यये विपरीतज्ञाने आत्मनोऽहंकर्तेत्यादिधर्मयुक्तत्वज्ञानरूपे सत्यत्वामिनिवेशः एतेषामन्यतमो वर्तमानः प्रतिबंधः ॥ ४३॥

 तन्निवारणोपायमाह, शमाद्यैरिति ।

शमाद्यै: श्रवणाद्यैश्च तत्र तत्रोचितैः क्षयम् ।
नीतेऽस्मिन् प्रतिबंधेऽतः स्वस्य ब्रह्मत्वमश्नुते ॥ ४४ ॥

 तत्र तत्रोचितैः तस्य तस्य प्रतिबंधकस्य प्रतीकारक्षमैः शमाद्यै: श्रवणाद्यैश्चोपायैर्विषयासक्तो शमदमादिनाऽन्तर्बहिरिन्द्रियनिग्रहेण, प्रज्ञामान्द्ये श्रवणेन,कुतर्के मननेन,विपर्ययदुराग्रहे निदिध्यासेन, एवमुचितैः प्रतीकारैरस्मिन् प्रति-

49