पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८६
[ध्यानदीप
पञ्चदशी

बंधे क्षयं नीते सति स्वस्य ब्रह्मत्वं ब्रह्मभावमश्नुते ॥ ४४॥

 आगामिप्रतिबंधं दर्शयति, आगामीति ।

आगामिप्रतिबंधश्च वामदेवे समीरितः।
एकेन जन्मना क्षीणो भरतस्य त्रिजन्मभिः ॥ ४५ ॥

 आगामिप्रतिबंधो वामदेवे समीरितो दृष्टान्तितः । आरब्धशेषो जन्मान्तरकारणम् । स चोपभोगेन क्षयिष्णुः प्राबल्यानुसारतः वामदेवादीनां केषांचिदेकेन जन्मना, भरतस्य त्रिजन्मभिश्च क्षीणः ॥ ४५ ॥

 बहुजन्माभ्यस्तविचारेणैव चरमजन्मनि प्रतिबन्धक्षये गीतावाक्यमुदाहरन् मध्येकालं विचारभ्रष्टस्य का गतिरित्याशंक्याह, योगेति ।

योगभ्रष्टस्य गीतायामतीते बहुजन्मनि ।
प्रतिबन्धक्षयः प्रोक्तो न विचारोऽप्यनर्थकः ॥ ४६ ॥

 योगभ्रष्टस्य योगाच्छूवणादिपरिपाकलब्धजन्मनस्तत्त्वसाक्षात्काराद्भ्रष्टः सर्वकर्मसन्यासपूर्वकं वेदान्तवाक्यश्रवणादि कुर्वन्नप्यायुषोऽल्पत्वादिन्द्रियाणां व्याकुलतया वा मरणसमये चलितमानसोऽनिवृत्ताज्ञानतत्कार्योऽतत्त्वज्ञः, तस्य बहुजन्मन्यतीते प्रतिबन्धक्षयः प्रतिबन्धः श्रुत्यनेकतासंभाव्यताविपरीतभावनादिः तस्य नाशो गीतायां षष्ठाध्याये प्रोक्तः । एवं सति मध्ये विच्छिन्नयोगस्य परित्यक्तकर्मोपासनातः स्वर्गलोकब्रह्मलोकाद्यभावात् अपरिपक्वविचारतो जीवन्मुक्तेरभावात् का गतिरिस्याशंक्याह, नेति । मध्येकालं कृतो ब्रह्मविचारो सम्यग्दर्शनफलेऽक्षमोऽपि नानर्थको भवति । “नैवेह नामुत्र विनाशस्तस्य विद्यत’ इति स्मृतेर्न तस्य पूर्वस्माद्धीनजन्मप्राप्तिरिति भावः ॥ ४६ ॥

 अपरिपक्वविचारस्य विचारपरिपाकाभावे कारणं विमृशन् विचारपरिपाकाभावकारणानुरूपां गतिं द्वाभ्यां विवृणोति, प्राप्येति ।

प्राप्य पुण्यकृतां लोकानात्मतत्वविचारतः।
शुचीनां श्रीमतां गेहे साभिलाषोऽभिजायते ॥ ४७ ॥