पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८८
[ध्यानदीप
पञ्चदशी

रोद्बोधं लभत इति भावः । ततः पूर्वसंस्कारस्योद्बुद्धत्वाद्भूयो दृढतरविचाराय यतते । तस्मादेतज्जन्म दुर्लभं हि । पूर्वाभ्यासबलाद्विचारेऽनिच्छन्नप्याकृष्टो भवतीत्याह, पूर्वेति । अवशोऽपि स्वयमनिच्छन्नपि तेन पूर्वाभ्यासेनैव भूयो विचरेण ह्रियते आकृष्यते । एवमनेकजन्मसंसिद्धः अनेकजन्मस्वाचरितेन योगाभ्यासेन तत्त्वज्ञानसंपन्नस्ततः परामुत्कृष्टां गतिं याति । अत्र गीतायां षष्ठाध्याये ४०-४५ श्लोका अवलोकनीयाः ।

 अत्रायं विवेकः । मानसद्वैतरूपबन्धो निर्विकल्पसमाधिना शाम्यते । तात्कालिका च सा शान्तिः । निर्विकल्पसमाधिस्तु सविकल्पसमाधिना संपाद्यते । आगामिजनिक्षयस्तु ब्रह्मात्मैक्यज्ञानं विना न स्यात् ।

 ब्रह्मैक्यज्ञानन्तु मिथ्याविवेचनविचारसाध्यम्। श्रवणादित्रयं तद्धेतु । ब्रह्मज्ञानस्य वैराग्योपरमावुभावुपकारकौ । बहुजन्मसमासादितपुण्यपूगपरिपाकवशास्त्रयोऽपि पूर्णा भवन्ति । येन जीवन्मुक्तत्वसिद्धिः । यद्यपि दुरितेन यस्मिन् कस्मिंश्चित्पुरुषे यदाकदापि त्रयाणां मध्ये यः कश्चित् प्रतिबध्यते । बोधे प्रतिबद्धे वैराग्योपरमयोः पूर्णयोः तपोबलात् पुण्यलोकप्राप्तिः । पूर्णे बोधे इतरयोः प्रतिबद्धयोर्मोक्षो विनिश्चितः । दुष्टदुःखं तु न नश्यति ।

 ब्रह्मात्मैक्यस्य दृढज्ञानपर्यन्तं श्रवणादिना विचारः कर्तव्यः। बहुजन्मदृढा- भ्यासाद्देहात्मधीर्जगत्सत्यत्वबुद्धिश्च पुनः पुनरुदेति । ततो भूयो भूय आमरणं विचारयन्नपि प्रतिबन्धवशाद्विचारस्य परिपाकाभावे आत्मसाक्षात्कारो न सिध्यति । जन्मान्तरे प्रतिबन्धक्षये सति शनैः कालेनात्मविचारस्य परिपक्वे स लभ्यते ।

 प्रतिबन्धस्त्रिविधः, भूतभाविवर्तमान इति । दैनंदिनप्रलये स्वमपियन्नपि पुरुषस्त्रिविधप्रतिबन्धवशाद्भूगर्भे निहितस्य स्वगृहस्थस्य निधेरुपर्युपरि संचरन्नपि तदपरिज्ञानेन दारिद्धामनुभवन्निवात्मदारिद्र्यमनुभवति । साधकस्त्वंजनादिभिर्निध्युपलंभेन सुखित इव प्रतिबन्धमुक्तमार्गेणापनीयात्मसाम्राज्यमधिगच्छति ।

 श्रवणात्पूर्वकालिकस्नेहादिनिमितो भूतप्रतिबन्धः । तादृक्स्नेहादिविषयकोपाधिमनुसृत्य तत्त्वोपदेशे प्रतिबन्धकापगमे जडभरतेनेव तत्त्वमधिगम्यते । वर्तमानप्रतिबन्धे प्रज्ञामान्द्यम्, कुतर्को विपर्ययदुराग्रह इति त्रीणि कारणानि । श्रुतीनामनेक-