पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
[ध्यानदीप
पञ्चदशी

कुले जायत इत्युभयविधस्यैव जन्मनः कल्याणकृतो दुर्गत्यभावविवरणपरतया प्रतिपादनात् ।

 अचंचलचित्तानामज्ञानपिहितात्मनां विचार उपदिश्यते । तदितरेषां बहुव्याकुलितचित्तानामुपासना विधीयते । तया धीदर्पो विनश्यति । अपक्वनिष्कामनिर्गुणोपासको मरणे ब्रह्मलोके वा तत्त्वं विज्ञाय मुच्यते । निर्गुणोपासनेन मूलविद्यानिवर्तिका धीर्जायते । ततो विद्योत्पत्तिः । ततो मुक्तिः । सकामनिर्गुणो पासकस्तूपासनासामथ्र्योत् ब्रह्मलोके तत्त्वमवेक्षते । ततो मुच्यते । उभावपि ब्रह्म लोकान्न पुनरावर्तेते । “अनावृत्तिः शब्दात् , अनावृत्तिः शब्दात्” (सू.४.४.२२) "इमं मानवमावर्ती नावर्तन्ते । न स पुनरावर्तत” (छां. ४. १५. ६.) इत्यादिभिः । प्रतीकोपासकश्च यं यं वापि स्मरन् त्यजत्यन्ते कलेवरं तं तमेवैति। उपासनानां मोक्षस्य परंपरयोपकारकत्वाद्वेदान्तेषु तेषां चिन्तनमिति दिक्। अत्र २-७३, ४-३८, ४-६१, ६-२७७, ७-३१, ७-९८-१०३, ९-५४, ९-१३६ श्लोकानामर्थस्य सिंहावलोकनं क्रियताम् ॥ ५० ॥

 स्वर्गलोकाभिलाष इव ब्रह्मलोकाभिलाषोऽप्यागामिप्रतिबन्धेष्वन्तर्भवतीत्याह, ब्रह्मेति ।

ब्रह्मलोकाभिवांछायां सम्यक्सत्यां निरुध्य ताम् ।
विचारयेद्य आत्मानं न तु साक्षात्करोत्ययम् ॥ ५१ ॥
वेदान्तविज्ञानसुनिश्चितार्था इति शास्त्रतः ॥ ५१ ॥

 ब्रह्मलोकाभिवांछायां ब्रह्मणः कार्यब्रह्मणो लोकस्सत्यलोक, तस्मिन् सम्यगभिवांछायां सत्यां तां निरुध्य य आत्मानं विचारयेत्स आत्मानं न साक्षात्करोति । आत्मसाक्षात्कारेण प्राग्देहपाताज्जीवन्मुक्तता । सैवात्यन्तिको मोक्षः । सा चात्यन्तोपमृदितसर्वकामनामूलकस्य वैराग्यभाग्यस्य फलम् । ब्रह्मलोककामनापि जीवन्मुक्तेः प्रतिबन्धक एव । ब्रह्मलोकतृणीकारो वैराग्यस्यावधिरित्यन्यत्रोक्तम् । (६-२८५) इममेवार्थं श्रुतिसिद्धं करोति, वेदान्तेति । “वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयश्शुद्धसत्त्वा:। ते ब्रह्मलोके तु परान्तकाले परामृताः