पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
३९१
कल्याणपीयूषव्याख्यासमेता

परिमुच्यन्ति सर्वे" (कै.१.३.४.) मुं.३.२.६., नारा. १-२२) इति शास्त्रतः जीवन्मुक्तस्यैव ब्रह्मसाक्षात्कारो न तु कामनानिपीडितस्येति तत्र प्रतिपादितत्वात् ।

 श्रुत्यर्थस्तु वेदान्तविज्ञानसुनिश्चितार्थाः वेदान्तानामुपनिषदां विज्ञानेन महावाक्यार्थबोधस्यादार्ढ्ये हेतुभूतासु श्रुत्यनेकतासंभाव्यताविपरीतभावनासु श्रवणमनननिदिध्यासैरपनीतासु स्थिरीभूतेनाहंब्रह्मेतिदृढज्ञानेन सुनिश्चितोऽर्थो ब्रह्मपदार्थो यैस्ते संन्यासयोगात् विषयाणामनित्यत्वज्ञानेन भोगजिहासात्मकसंपूर्णवैराग्ये सति सर्वकर्मपरित्यागपूर्वकब्रह्मनिष्टारूपयोगाधतयो यतनशीलाः शुद्धसत्वाः संन्यासयोगेन विषयेभ्यो निवृत्तचित्ततया पुनस्तेषु वृत्यभावात् । ये सन्ति ते ब्रह्मलोके ब्रह्म एव लोकस्तस्मिन् परे ब्रह्मणि यद्वा ब्रह्मणो लोकः दर्शनं साक्षात्कारः, तस्मिन् परान्तकाले संसारावसानसमये देहाभिमानपरित्यागकाल इत्यर्थः, परामृताः परममृतम- मरणधर्मकं ब्रह्मभूतं येषां ते जीवन्त एव ब्रह्मभावमापन्नाः परिमुच्यन्ति समन्तान्निवृत्तिमुपयान्ति । न तत्र देशान्तरगमनमपेक्षन्ते । विस्तरस्तु भगवत्पादककर्तृकमुंडकभाष्ये ग्रन्थकर्तुर्नारायणोपनिषद्विवरणे च द्रष्टव्यः ॥ ५१ ॥

 एवं सति ब्रह्मलोकाभिवांछाप्रयुक्तस्य मोक्षावकाश एव न स्यादित्याशंकाह, ब्रह्मेति ।

ब्रह्मलोके स कल्पान्ते ब्रह्मणा सह मुच्यते ॥ ५२ ॥

 इच्छावशादवश्यप्राप्तव्ये ब्रह्मलोके सत्यलोके उषित्वा तत्रेच्छायास्सम्यगुपमर्दनात् कल्पान्ते प्रलयकाले ब्रह्मणा सह मुच्यते । इच्छायाः समुन्मूलनं विना न ब्रह्मभावापत्तिः ॥ ५२॥

 एवं विचारप्रयुक्तानां ज्ञानावाप्तेः प्रतिबंधान् प्रदर्श्यान्येषां प्रतिबंधनिमित्तकं विचारदौर्लभ्यमपि प्रदर्शयति, केषामिति ।

केषांचित्सविचारोऽपि कर्मणा प्रतिबध्यते ।
श्रवणायाऽपि बहुभिर्यो न लभ्य इति श्रुतेः ॥ ५३ ॥

 “श्रवणायाऽपि बहुभिर्नलभ्य: (कठ. १. २. ७) इति श्रुतेः केषांचिद्बलवत्तरप्रारब्धाभिहतानां विचारोऽपि ब्रह्मविचारोऽपीत्यर्थः । आरब्धेन कर्मणा प्रतिबध्यते ॥ ५३ ॥