पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
३९३
कल्याणपीयूषव्याख्यासमेता

 शास्त्रसमर्थितं किंचिदालंबनमुपादाय तस्मिन् समानचित्तवृत्त्चिसंतानकरणं । तद्विलक्षणप्रत्ययानंतरितमेवोपासनेत्युच्यते । चित्तवृत्यात्मकत्वादुपासनं तु स्रभ्यद्मन- स्कताप्रयुक्तं भवति । ज्ञानोपासनयोर्महदन्तरमस्ति । बोधो भवेद्वस्तुतंत्र:। उपासनं तु कर्तृतंन्त्रम् । यथा वस्तुस्वरूपं तथैव तदज्ञायते । नान्यथा । आलंबनवस्तूपादा- नस्योपासकायतत्त्वाद्यथारुचि तद्विव्रियते; कर्तुमकर्तुमन्यथा कर्तुमपि तस्य समर्थत्वात् । नैष्कर्यप्रस्थापिता च विद्या । कर्मप्रधाना तूपासना । ब्रह्मणस्सिद्धत्वेन तद्ज्ञाना- भावेऽपि ब्रह्म न विलीयते । उपासनस्य ध्यानस्वरूपत्वाद्ध्यानाभावे उपास्यस्वरूपं विलीयते । साक्षिणः स्वयमेव प्रमातृत्वात्तस्य फलव्याप्तित्वमेव निवारितम् । तथाप्यु भयत्र धीव्याप्यत्वस्य विद्यमानत्वाद्यथा ब्रह्म वेद्यम् भवति । तथोपास्यमपीत्युभयोर्वंद्यस्वरूपम् सामान्यम् ।

 स्वभावत उपासनाऽऽलंब्यालंबकालंबनरूपत्रिपुटीविशिष्टा भवति । धीप्रत्ययगोचरं किंचिन्निकृष्टवस्त्वालंब्यं भवति । उकृष्टं वस्तूपास्यं भवति । यथा सालग्रामादिषु विष्णुः । उपास्यं ब्रह्म सगुणं निर्गुणम् वा स्यात् । उपासनं सकामं निष्काममपि स्यात् । अहं ब्रह्मास्मीत्यादि (बृ.१.४.१०) महावाक्योपपादितस्य नित्यशुद्धबुद्धमुक्तस्त्रभावस्य परब्रह्मणोऽपरोक्षतयाऽनुभूतेरसाध्यत्वेऽहंब्रह्मस्मीत्यहंग्रहोपासना निर्गुणेपासनेतीरिता । "सत्यकामः सत्यसंकल्प" (छां. ८. ७. १.) इत्याद्यन्तःकरणविशिष्टस्य ब्रह्मण उपासना सगुणा भवति । यद्वा सकलमिदमहं च वासुदेव इत्यहं गृहीततयोपास्यते । यद्वा “नामब्रह्मे" (छां. ७.१.५) त्युपास्यते । “सर्वं खल्विदंब्रह्मे"ति (छां. ३.१४.१.) प्रतीकोपास्यते । एवं बहुप्रकारकं सगुणोपासनं तत्र तत्र श्रूयते । यथाकथंचित्सर्वोपासनेषु चित्तवृत्तिरेव प्रधाना । उपासनायाः यावद्ब्रह्मसामीप्यं तावतस्याः श्रैठ्यम् विवर्धते । सगुणनिर्गुणोपासनयो- श्चित्तवृत्तेस्समानत्वेऽपि द्वितीये ब्रह्मप्रत्यासत्तिर्विशिष्यते । अतः शनैश्शनैस्सा ब्रह्मज्ञानायते । तस्मिन् पक्वे सति सविकल्पकसमाधिस्ततो निर्विकल्पकसमाधिश्च लभ्यते । तल्लाभेऽन्तरसंगमेव वस्तु शिष्यते । यस्मिन् पौनःपुन्येन वासिने महा- वाक्यान्निर्विकारासंगनित्यस्वप्रकाशैकपूर्णता झटिति बुद्धावारोहति । तत्त्वज्ञानादयेऽपरोक्षसाक्षात्कारः करतलामलकमिव भासते । एवं ब्रह्मणि नित्यनिर्गुणरूपमिति नाममात्रेण गीयमानेऽप्यर्थतः संवादिभ्रमवत्स्वरूपावस्थानमात्रमेव स्यात् ।

50