पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९६
[ध्यानदीप
पञ्चदशी

ब्रह्म विद्धि तदेव त्वं न त्विदं यदुपासते ।
इति श्रुतेरुपास्यत्वं निषिद्धं ब्रह्मणो यदि ॥ ५९ ॥

 “यन्मनसा न मनुते येनाहुर्मनो मतं तदेव ब्रह्मत्वं विद्धि नेदं यदिदमुपासते" (केन.१-५) इति श्रुतेः ब्रह्मण उपास्यत्वं यदि निषिद्धं स्यादित्युतरेणान्वयः ॥ ५९ ॥

 उपास्यत्वमिव वेद्यत्वमपि श्रुत्या निषिध्यत इत्याह, विदितादिति ।

विदितादन्यदेवेति श्रुतेर्वेद्यत्वमस्य न ।

 “अन्यदेव तद्विदितादथोऽविदितादधी"ति (केल. १-३) श्रुतेरस्व वेद्यत्वं न । एवं च निपेघोऽप्युभयत्र समान इति भावः ।

 ननु विदिताविदितान्यत्वेन श्रुत्या प्रतिपादनात्तद्रुपेण वेदनमुपपञ्चन इति तूपासनेऽपि तुल्यमित्याह, यथेति ।

यथा श्रुत्यैव वेद्यं चेत्तथा श्रुत्याऽप्युपासना ॥ ६० ॥

 यद्रूपेण श्रुत्या प्रतिपादितं तद्रूपेण वेद्यत्वमिति चेत्तथा तद्रूपेणैव श्रुत्याप्युपासना कार्या ।। ६०॥

 यदि ब्रह्मणो वेद्यत्वमवास्तवं तदोपास्यत्वमपीत्याह, अवास्तवीति ।

अवास्तवी वेद्यता चेदुपास्यत्वं तथा न किम् ।
वृत्तिव्याप्तिर्वेद्यता चेदुपास्यत्वेऽपि तत्समम् ॥ ६१॥

 ब्रह्मणो वेद्यताऽवास्तवी अमुख्या इत्युच्यते चेत्तथा तस्योपास्वत्वमपि तथा अमुख्यं किं न स्यात् । ननु वृत्तिव्याप्यत्वरूपं वेद्यत्वं ब्रह्मणि संभवति न तथोपास्यत्वमित्याशंक्याह, वृत्तिरिति । ब्रह्मणो वेद्यता नाम वृत्तिव्याप्तिः। बुद्धि वृत्तेर्व्याप्तिमात्रमिति चेदुपास्यत्वेऽपि तत्समम् । वेदनोपासनयोरुभयोरपि वृत्ति व्याप्यत्वं सममेवेति भावः । अत्रायमाशयः । घटादिजडविषये सस्य चिदाभास भास्यत्वेन वस्तुज्ञानरूपफलसिद्भिर्भवति । न तथा साक्षिणि, तस्य स्वप्रकाशरूपत्वात् । स्वयमेव प्रमातृस्वरूपत्वान्नान्योऽस्ति प्रमाता। एवं साक्षिणश्चैतन्यस्य वेद्यत्वं घटादिवन्न मुख्यम् । किंतु तदेकदेशवृत्तिव्याप्यत्वस्य"नेह नानास्ति किंचन