पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
[ध्यानदीप
पञ्चदशी

पंचीकरणमिति प्रसिद्ध भागे श्रीभगवत्पादविरचितसमाधिविधिनामकग्रंथस्थे पंचीकरण ईरितः । ननूपास्तेः ज्ञानसाधनत्वस्य प्रसिद्धत्वात्कथमुच्यते मुक्तिसाधनत्व मित्याशंक्याह, ज्ञनेति । एतदुपासनं ज्ञानसाधनं निर्गुणब्रह्मज्ञानसंपादने साधनमिति चेदस्माभिरप्यङ्गीकृतमेवैतत् । परन्तु “उपासनं नातिपक्वमिह यस्य परत्र सः । मरणे ब्रह्मलोके वा तत्त्वं विज्ञाय मुच्यते” (९-१३६) इत्यनुपदमेव ज्ञानद्वारा मुक्तिसाधनत्वस्य वक्ष्यमाणत्वान्मुक्तिसाधनत्वमपीति भावः ॥ ६४ ॥

 ननु निर्गुणोपास्तिः परंपरया मोक्षसाधिका भवतु नाम । तथापि न केनाप्यनुष्ठीयत इत्यत आह, नेति ।

नानुतिष्ठति कोऽप्येतदिति चेन्मानुतिष्टतु ।
पुरुषस्यापराधेन किमुपास्तिः प्रदुष्यति ॥ ६५॥

 एतन्निर्गुणब्रह्मोपासनं न कोऽप्यनुतिष्ठतीति चेन्नानुतिष्ठतु नाम । पुरुषस्या पराधेन करुणाकरणान्यथाकरणरूपेणोपास्तिः प्रदुष्यति किम् ? न दूष्यतीत्यर्थः । प्रमाणसिद्धस्यापि निर्गुणोपासनस्याननुष्ठाने उपासकस्यैव दोषो न तूपास्तेरिति भावः ॥ ६५ ॥

 जना नानुतिष्ठन्तीत्येतावन्मात्रेण न काप्युपास्तिर्दुष्यतीति सदृष्टान्तमाह, इत इति ।

इतोऽप्यतिशयं मत्वा मन्त्रान्वश्यादिकारिणः।
मूढा जपन्तु तेभ्योऽतिमूढाः कृषिमुपासताम् ॥ ६६ ॥

 मूढा उपासनातत्त्वानभिज्ञाः इतोऽपि निर्गुणब्रह्मोपास्तेरप्यतिशयं मत्वा वश्यादिकारिणः, आदिपदेन मारणादिसंग्रहः । मन्त्रान् जपन्तु । तदपेक्षितनियमादिविमुखस्तेभ्यो वशीकरणादिमन्त्रजपितृभ्योप्यतिमूढाः अनपेक्षितनियमं कृषिमुपासताम्। मूढतरैः कृषीवलैरनुष्ठितमपि मंत्रजपादिकं परैर्न परित्यज्यते । एवं मूढडैर्मन्त्रजपपरैरननुष्ठितापि मुमुक्षुभिर्निर्गुणोपास्तिर्न परिह्रियत इति भावः । ६६॥

निर्गुणोपासनाप्रकारविचारः ।

 एवं श्रुतियुक्तिभ्यामुपासनां संसाध्य तदाचरणप्रकारं विवृणोति, तिष्ठन्त्विति।

तिष्ठन्तु मूढाः प्रकृता निर्गणोपास्तिरीर्यते ।