पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
३९९
कल्याणपीयूषव्याख्यासमेता

विध्यैक्यात्सर्वशाखस्थान् गुणानत्रोपसंहरेत् ॥ ६७ ॥

 मूढा अज्ञातोपासनातत्त्वास्तिष्ठन्तु नाम । प्रकृता प्रकृतप्रकरणविषयभूतानिर्गुणोपास्तिरीर्यते कथ्यते । विध्यैक्याद्वहुश्रुतिप्रतिपादितस्य निर्गुणोपासनस्य ऐक्यात्सर्वशाखास्थानुपास्यान् गुणान् अत्र निर्गुणोपासने उपसंहरेत् । तत्तत्स्वरूपं ब्रह्मेत्युपासीतेत्यर्थः । ब्रह्मप्रतिपादिकासूपनिषत्सु आनंदविज्ञानघनसर्वगतत्वादिबोधकाश्शब्दाः तत्र तत्र श्रूयन्ते । सर्वत्रैव ते सर्वेऽपि संग्रहीतव्याः । तेषां सर्वेषां ब्रह्मप्रतिपादकाभिप्रायकत्वादिति भावः ॥ ६७ ॥

 विविधश्रुतिप्रतिपादिता धर्मा विधेया निषेध्या इति द्विप्रकारकाः। तत्र नित्यशुद्धबुद्धमुक्ताद्वयानंदा इत्येवंजातीयकाः स्वरूपधर्मा विधेयाः । अस्थूल मनण्वह्रस्वमदृश्यमग्राह्यमशब्दमित्यादयो निषेध्यरूपाः । तत्र विधेयानामुपसंहारः ब्रह्मसूत्रे दर्शित इत्याह, आनंदेति ।

आनंदादेर्विधेयस्य गुणसंघस्य संहृतिः ।
"आनंदादय"इत्यस्मिन् सूत्रे व्यासेन वर्णिता ॥६८॥

 विधेयस्य उपास्तौ परिग्रहीतव्यस्यानंदादैः आनन्दविज्ञानधनसर्वगतसर्वात्मवादेः गुणसंघस्य स्वरूपबोधकानां धर्माणां संघस्य संहृतिरेकत्रोपसंहारः "आनंदादयः प्रधानस्य" (ब्र.सू. ३.३.११) इत्यस्मिन् सूत्रे व्यासेन वर्णिता आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्या इति सूत्रार्थः ॥६८॥

 तथैव निषेध्य धर्माणामुपसंहृतिमाह, अस्थूलेति ।

अस्थूलादेर्निषेध्यस्य गुणसंघस्य संहृतिः ।
तथा व्यासेन सूत्रेस्मिन्नुक्ताक्षरधियां त्विति ॥ ६९॥

 तथा निषेध्यस्य द्वैतनिषेधरूपस्य अस्थूलादेरस्थूलमनण्वह्रस्वमदृश्यमग्राह्य- मशब्दमस्पर्शमरूपमित्यादेर्गुणसंघस्य संहृतिः ‘अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदनवत्तदुक्तमि” (ब्र.सू. ३.३.३३)त्यस्मिन् सूत्रे उक्ता ॥ ६९ ॥

 ननु निर्गुणब्रह्मतत्त्वज्ञाने विविधगुणसंहृतिरसमंजसैवेति चेत्सूत्रकृता व्यासमहर्षिणैवोक्तत्वान्नात्र चोद्यमित्याह, निर्गुणेति ।

निर्गुणब्रह्मतत्वस्य विद्यायां गुणसंहृतिः ।