न युज्येतेत्युपालंभो व्यासं प्रत्येव मां न तु ॥ ७० ॥ |
निर्गुणब्रह्मतत्त्वस्य विद्यायां बोधे तद्विरुद्धभूता गुणसंहृतिर्न युज्येत न युक्तेत्युपालंभो व्यासं प्रत्येव न तु तदनुयायिनं मामित्यर्थः । निर्गुणोपासनावसरे विधेयनिषेध्यगुणसंहृतेर्ब्रह्मणस्तद्गुणविशिष्टत्वकथने न तात्पर्यं किन्तु तेषां तल्लक्षकत्वकथने एवेत्यधस्तादुच्यते । उपासनायां यत्किंचिदालम्बनस्यावश्यकतया निर्गुणेऽपि परे ब्रह्मण्येवंरूपगुणसंहृतेर्व्यासादिप्राचीनाचार्यैर्ब्रह्मसूत्रे प्रतिपादिततया प्रमितत्वेन तदुपालंभः केवलोपहासायैव भवतीति भावः ॥ ७० ॥
गुणविशिष्टमूर्तिप्रसंगमपहाय केवलविधेयनिषेध्यगुणसंहृतिर्निर्गुणोपासनेन न विरुध्यत इत्याह, हिरण्येति ।
हिरण्यश्मश्रृसूर्यादिमूर्तीनामनुदाहृतेः । |
हिरण्यश्मश्रृसूर्यादिमूर्तीनामस्मिन्निर्गुणोपासनेऽनुदाहृतेरनभिधानात् निर्गु णत्वमविरुद्धमिति चेत् केवलविधेयनिषेध्यगुणसंहृतेर्निर्गुणोपासना न विरुध्यत इत्युच्यते चेत् तर्हि त्वया तुष्यतां अस्माकमपीष्टपत्तेरिति भावः ॥ ७१॥
निरुक्तविरोधाभावमेव विवृणोति, गुणानामिति ।
गुणानां लक्षकत्वेन न तत्त्वेऽन्तःप्रवेशनम् । |
आनन्दादिविधेयानां अस्थूलादिनिषेध्यानां च गुणानां ब्रह्मतत्त्वस्य लक्षकत्वेन तेषां संहृतिरुच्यते । न तु तेषां तत्त्वे ब्रह्मस्वरूपे अन्तःप्रवेशनमुक्तमिति चेत् अस्तु । एवमेव तेषां ब्रह्मणो लक्षकत्वेनैव ब्रह्मतत्वमुपास्यताम् । निर्गुणोपासनावसरे विधेयनिषेध्यगुणसंहृतेः ब्रह्मणस्तद्गुणविशिष्टत्वं नोक्तम् । तस्य निर्गुणत्वात्। किं तु तैर्बह्म ल्क्ष्यत इत्यभिप्रेतम् । उपासनायाः कस्यचिदालंबनस्यावश्य कत्वात्तैर्लक्षितं निर्गुणं ब्रह्मोपास्यमिति भावः ॥ ७२ ॥
उक्तासुपासनारीतिं विवृणोति, आनन्देति ।