पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
४०१
कल्याणपीयूषव्याख्यासमेता

आनन्दादिभिरस्थूलादिभिश्चात्माऽत्र लक्षितः।
अखण्डैकरसः सोऽहमस्मीत्येवमुपासते ॥ ७३ ॥

 अत्र आसु श्रुतिषु योऽखण्डैकरसः सजातीयादिभेदत्रयशून्यो रसघन आत्मा आनन्दादिभिर्विधेयगुणैः अस्थूळादिभिर्निषेध्यगुणैश्च लक्षितः बोधितः । स आत्मा अहमस्मीत्येवं मुमुक्षुव उपासते । निर्गुणब्रह्मोपासनाविषयोऽयं न तु तत् साक्षात्कारविषय इति ज्ञेयम् ॥ ७३ ॥

ज्ञानोपासनयोर्भेदकथनम् ।

 एवं सति विद्योपासनयोः को भेद इत्याशंक्य वस्तुतन्त्रकर्तृतन्त्रत्वाभ्यां तयोर्भेद इत्याह, बोधेति ।

बोधोपास्त्योर्विशेषः क इति चेदुच्यते श्रृणु ।
वस्तुतन्त्रो भवेद्वोधः कर्तुतन्त्रमुपासनम् ॥ ७६ ॥

 बोधोपास्त्योः, बोघः वस्तुनो यथार्थस्वरूपावगतिः उपास्तिरुत्कृष्टवस्तुदृष्ट्या निकृष्टवस्तुविभावना, यथासंपदुपासना, तयोर्विशेषः क इति चेच्छृणु। बोधो वस्तुतन्त्रः वस्त्वधीन:; उपासनं तु कर्तृतंत्रं कर्त्रधीनं भवेत् । वस्तुनः स्वरूपज्ञाने नैव तद्वोधो भवति । उपासनायां तूपासकोऽन्यवस्तुदृष्ट्याऽन्यदस्तूपासते । वस्तुद्वयं च यथारुचि उपासकेन व्रियत इति भावः ॥ ७४ ॥

 बोधस्य वस्तुतंत्रतामेव स्पष्टयति, विचारेति ।

विचाराज्जायते बोधोऽनिच्छा यं न निवर्तयेत् ।
स्वोत्पत्तिमात्रात्संसारे दहत्यखिलसत्यताम् ॥ ७५॥

 बोधो वस्तुतत्वस्य विचारान्मननेन जायते । विचरेणोत्पद्यमानो यो बोधस्तं ‘मा भूदयं वस्तुबोध' इत्याकारिकऽनिच्छा न निवर्तयेत्, तस्येच्छानधीनत्वात्। चंद्रज्ञानं मे माभूदितीच्छतोऽपि चक्षुरिन्द्रियसंयोगे तत्स्वरूपज्ञानमवश्यं भवेदेवेत्यर्थः । ब्रह्मबोधे उपासनावैलक्षण्यमाह; स्वेति॥ स्वोत्पत्तिमात्रात् स्वस्यब्रह्मज्ञानस्योत्पत्तिमात्रदेव संसारे द्वैतेऽखिलसत्यतामखिलं सत्यमिति भावं’ दहति

51