पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०२
[ध्यानदीप
पञ्चदशी

नाशयति । ज्ञाने सति सर्वद्वैतोपमर्दनं भवति । नैतदुपासनायां, तत्र त्रिपुट्यास्सत्त्वात् ॥ ७५ ॥

 ब्रह्मज्ञानफलमाह, तावतेति ।

तावता कृतकृत्यस्सन्नित्यतृप्तिमुपागतः ।
जीवन्मुक्तिमनुप्राप्य प्रारब्धक्षयमीक्षते ॥ ७६ ॥

 तावता ब्रह्मज्ञानोत्पत्तिमात्रेण कृतकृत्यः सन् नित्यतृप्तिं नित्यां विकाररहितां तृप्तिमुपागतः दग्धाखिलसंसारसत्यत्वज्ञानस्सन् जीवन्मुक्तिं जीवतस्सत एव या मुक्तिस्तामनुप्राप्य अवाप्तनित्यतृप्तिमनुसृत्य प्रारब्धक्षयं प्रारब्धस्यानिवार्यस्य उपभोगेनैव क्षयशीलस्य क्षयं नाशं नाद्यापि कर्म नश्छिन्नमिति क्लिश्यन्नेव निष्टिगृहीत वदम्भुजान ईक्षते निरीक्षते ॥ ७६॥

 उपासनायां विद्यातो वैलक्षण्यं तत्स्वरूपप्रर्शनमुखेन स्पष्टयति, आप्तेति ।

आप्तोपदेशं विश्वस्य श्रद्धालुरविचारयन् ।
चिन्तयेत्प्रत्ययैरन्यैरनन्तरितवृत्तिभिः ॥ ७७ ॥

 आप्तोपदेशमाप्तानां गुरुशास्त्रादीनामुपदेशं “स य एवं विद्वानादित्यं ब्रह्मेत्युपास्ते” (छां. ३.१९.४), “यो वाचं व्रह्मेत्युपास्ते" (छाम्. ७. २.२.) इत्यादिवाक्यजातरूपं विश्वस्य श्रद्धालुर्भूत्वा मंदधीत्वातत्त्वमविचारयन्, अन्यै रूपास्यविरोधिप्रत्ययैरनन्तरितवृत्तिभिश्चिन्तयेन्मनसि ध्यायेत् । विचारजन्या विद्या। न च सा वृत्तिरूपा। विचारमनपेक्ष्योपदेशविश्वासमात्रजन्या उपासना । सा च वृतिरूपा । एवं च कारणतः स्वरूपतश्च विद्योपासनयोर्भदः स्पष्ट एवेति भावः॥७७

 उपासनायां चिन्तनावधिमाह, यावदिति ।

यावच्चिन्त्यस्वरूपत्वाभिमानः स्वस्य जायते ।
तावद्विचिन्त्य पश्चाच्च तथैवाऽऽमृति धारयेत् ॥ ७८ ॥

 यावत्कालं चिन्तकस्य चिन्त्यस्वरूपत्वाभिमानश्चिन्तनादिविषयस्य देवतादेर्यत्स्वरूपम् तदेव स्वस्यापि स्वरूपमित्यभिमानः देवतात्मनोरैक्यविभावना जायते ।