पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
४०३
कल्याणपीयूषव्याख्यासमेता

तावत्कालं मनसि विचिन्त्य पश्चादभिमानानन्तरमप्यामृति मरणपर्यन्तं तथैवाभि मानं धारयेत् ॥ ७८॥

 स्वात्मनश्चित्यस्वरूपत्वाभिमानं छान्दोग्यादुदाहरति, ब्रह्मचारीति ।

ब्रह्मचारी भिक्षमाणो युतस्संवर्गविद्यया।
संवर्गरूपतां चित्ते धारयित्वाप्यभिक्षत ॥ ७९ ॥

 संवर्गविद्यया ‘संवर्जनात्संहग्रणात्संग्रसनाद्वा संवर्गः, संवर्गत्वगुणकस्यवायोः विद्ययोपासनया युतः भिक्षमाणः प्राणधारणनिमित्तामाश्रमविहितां भिक्षां याचमानः ब्रह्मचारी ब्रह्मणि वेदे चरतीति तथाविधश्चित्ते संवर्गरूपतां धारयित्वा कापेयमभिप्रतारिनाम राजानं प्रति “महात्मानश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा रसन्तं” (छाम्.४,३.६.) इति मन्त्रेण स्वात्मनस्संवर्गरूपतां चित्ते धृतां प्रकटीकृत्या- भिक्षत ॥ ७९ ॥

 आमृतिधारणे निमित्तमाह, पुरुषस्येति ।

पुरुषस्येच्छया कर्तुमकर्तुम् कर्तुमन्यथा ।
शक्योपास्तिरतो नित्यं कुर्यात्प्रत्ययसन्ततिम् ॥ ८० ॥

 कर्तृतंत्रत्वादुपास्तिः पुरुषस्येच्छया तदनुसारेण कर्तुमकर्तुमन्यथा प्रकारान्तरेण कर्तुं च शक्या । अतः प्रत्ययसन्ततिं ध्यानं नित्यं कुर्यात् ॥ ८० ॥

 नन्वामृत्यविच्छिन्ना धारणा न संभवति, सुषुप्तौ विच्छेदादित्याशंक्य तत्राप्याविच्छेदं दर्शयति, वेदेति ।

वेदाध्यायी ह्यप्रमत्तोऽधीते स्वप्नेऽधिवासतः ।
जपिता तु जपत्येव तथा ध्यातापि वासयेत् ॥ ८१॥

 स्वप्ने अप्रमत्तो वेदाध्यायी, अधिवासतो वासनादार्ढ्यात् स्वप्नेऽप्यधीते; जपिता जपशीलश्च जपत्येव; तथा ध्याता ध्यानकर्ता मनसि वासयेत् प्रत्ययसंततिं मनसि वासनारूपेण स्थापयेत् । दृढवासनावशात्स्वप्नादिष्वशात् प्रत्ययसन्तति-