पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०४
[ध्यानदीप
पञ्चदशी

रनुवर्तत इति भावः ॥ ८१॥

 तत्र कारणमाह, विरोधीति ।

विरोधिप्रत्ययं त्यक्त्वा नैरन्तर्येण भावयन् ।
लभते वासनावेशात् स्वप्नदावपि भावनाम् ॥ ८२ ॥

 उपासको जाग्रति विरोधिप्रत्ययं ध्येयप्रत्ययविजातीयप्रत्ययं त्यक्त्वा नैरंतर्येणोपास्यं वस्तु मनसि भावयन् स्वप्नदावपि बहुवारमुपास्यस्य वासनावेशात्संस्कारसामर्थ्याद्भावनां लभते ॥ ८२॥

 ननु प्रारब्धप्राप्ते विषयभोगे कथम् भावनानैरंतर्यं घटत इत्याशंक्यास्थातिशयतो विषयव्यसनिन इव सिध्यतीत्याह, भुंजान इति ।

भुंजानोऽपि निजारब्धमास्थातिशयतोऽनिशम् ।
ध्यातुं शक्तो न संदेहो विषयव्यसनी यथा ॥८३ ॥

 निजारब्धमात्मीयमारब्धं कर्म भुंजानोऽप्यनुभवन्नपि, आस्थातिशयतः उत्कटेच्छावशात् विषयव्यसनी विषयमुखेषु व्यसन यथा कार्यान्तरेषु व्याप्तोपि विषयाननवरतं ध्यायति, तथाऽनिशं ध्यातुं शक्तः । नात्र संदेहः ॥ ८३॥

 उक्तमुदाहरणं विवृणोति, परेति ।

परव्यसनिनी नारी व्यग्रापि गृहकर्मणि ।
तदेवास्वादयत्यंतः परसंगरसायनम् ॥ ८४ ॥

 गृहकर्मणि गृहोचितकर्मणि व्यग्रापि निमग्नापीत्यर्थः,परव्यसनिनी जारपुरुषे व्यसनवती नारी अंतर्मनसि तत्परसंगरसायनं जारपुरुषसमावेशसुखानुभवरसमास्वादयति ॥ ८४॥

 नन्वन्यानुरक्तमनस्कतया गृहकर्मणस्सम्यङ्निर्वहणं न स्यादित्याशंक्याह,परेति।

परसंगं स्वादयंत्या अपि न गृहकर्म तत् ।
कुंठीभवेदपि त्वेतदपातेनैव वर्तते ।। ८५ ।।