पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
४०५
कल्याणपीयूषव्याख्यासमेता

 परसंगं स्वादयन्त्या अपि स्त्रियः तद्गृहकर्म न कुंठीभवेत् विफलं न भवतीत्यर्थः । अपि त्वेतद्गृहकर्मापातेनैवाविचारितेनैव वर्तते ॥ ८५ ॥

 उक्तमापातवर्तनं विवृणोति, गृहेति ।

गृहकृत्यव्यसनिनी यथा सम्यक्करोति तत् ।
परव्यसनिनी तद्वन्न करोत्येव सर्वथा ॥ ८६ ॥

 तत् गृहकृत्यम् । स्पष्टमन्यत् ॥ ८६ ॥

तत्वविदो लौकिकव्यवहारस्याऽविरोधित्वविचारः।

 दृष्टान्तं दार्ष्टान्तिके योजयति, एवमिति ।

एवं ध्यानैकनिष्ठोऽपि लेशाल्लौकिकमाचरेत् ।।
तत्त्ववित्त्वविरोधित्वाल्लैौकिकं सम्यगाचरेत् ॥ ८७ ॥

 यथा परसंगरसायनमास्वादितवती नारी गृहकर्मण्यापातेनैव वर्तते एवं ध्यानैकनिष्ठोऽप्युपास्यावेशितचित्तैकाग्र्य: लौकिकं व्यवहारं लेशात्स्वल्पमाचरेत् । ब्रह्मविदस्तु तद्वैलक्षण्यं प्रदर्शयति, तत्त्वविदिति, तत्त्वविद् ज्ञानी त्वविरोधित्वाल्लैौकिकं सम्यगाचरेत् । ध्याननिष्ठो विरोधिप्रत्ययैश्चित्तैकाग्र्यभंगभिया लौकिकव्यवहारे स्वल्पमेव प्रवर्तते। तत्त्ववित्तु सुविज्ञातद्वैतमिथ्यात्वात् तत्र सम्यगनुतिष्ठति । सम्यग्ज्ञानस्य, मिथ्यात्वेन गृहीतेन द्वैतेनाविरोधित्वादिति तात्पर्यम् ॥८७॥

 तत्वविदो लौकिकव्यवहाराविरोधे कारणमाह, मायेति ।

मायामयः प्रपंचोऽयमात्मा चैतन्यरूपधृत् ।
इति बोधे विरोधः को लौकिकव्यवहारिणः ।। ८८ ॥

 अयं भासमानः प्रपंचः मायामयः, आत्मा चैतन्यरूपधृदिति बोधे तत्वविदस्समुत्पन्ने सति लौकिकव्यवहारिणो विरोधः कः न कोऽपीति भावः॥८८

 उक्तविरोधाभावं प्रपंचयति, अपेक्षत इति ।

अपेक्षते व्यवहृतिर्न प्रपंचस्य वस्तुताम् ।