पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
[ध्यानदीप
पञ्चदशी

नाप्यात्मजाड्यं किं त्वेषा साधनान्येव कांक्षति ॥८९॥

 व्यवहृतिर्लौकिकव्यवहारः प्रपंचस्य वस्तुतां सत्यतां नापेक्षते । आत्मजाड्यमात्मनः स्वस्य जाड्यं जडस्वभावं वा न । किं त्वेषा व्यवहृतिः प्रचलनाय साधनान्येव कांक्षते ॥ ८९ ॥

 उक्तव्यवहारसाधनानि संख्याति, मन इति ।

मनोवाक्कायतद्बाह्यपदार्थाः साधनानि तान् ।
तत्त्वविन्नोपमृद्भाति व्यवहारोऽस्य नो कुतः ॥ ९० ॥

 मनोवाक्कायतद्बाह्यपदार्थाः, मन:, वाक्, काय:, तेषां बहिर्भवा ये पदार्था गेहादयश्च ते व्यवहारस्य साधनानि । तानि तत्त्वविन्नोपमृद्भाति । न विनाशयति । किंतु क्रीडाकल्पितप्रतिमादिकमिव मिथ्यात्वेन गृह्णाति। अतोऽस्य व्यवहारः कुतो नो संभवति? संभवत्येवेत्यर्थः ॥९०॥

 ननु विषयाणामनुपमर्देऽपि बंधमोक्षयोः कारणभूतं चित्तमवश्यं तत्त्वविदोपमर्दनीयमेवेत्याशंक्य तथा सति तस्य ध्यातृत्वमेव न तत्त्ववित्त्वमित्याह, उपेति ।

उपमृद्भाति चित्तं चेद्ध्याताऽसौ न तु तत्त्ववित् ।
न बुद्धिं मर्दयन् दृष्टो घटतत्त्वस्य वेदिता॥ ९१ ।।

 चित्तमुपमृद्भाति चित्तैकाग्र्यसंपादनाय तन्निरोधयतीति चेदसौ चित्तनिरोधकः ध्याता एव । न तु तत्त्ववित्, ध्यानस्य चित्तवृत्तिनिरोधरूपत्वात् । “योग श्चित्तवृत्तिनिरोधः"। इति सूत्रबलादित्यर्थः । तत्र दृष्टान्तमाह,नेति । घटतत्त्वस्य वेदिता ज्ञाता बुद्धिं चित्तम् मर्दयन् निरोधयन् कुत्रापि लोके न दृष्टः। घटस्य स्वरूपावगतये चित्तनिरोधरूपं चित्तैकाग्र्यम् नापेक्षते । तत्स्वरूपध्यानं तु तदाकांक्षत इत्यर्थः ॥ ९१॥

 ननु विषमोऽयं दृष्टान्तः । घटस्य स्थूलत्वात् चित्तवृत्तिनिरोधमन्तरा सकृत्प्रत्ययमात्रेण तद्ज्ञानसिद्धिर्भवति । न तथा ब्रह्मविषये । तस्यास्पष्टत्वा- चित्तवृत्तिनिरोधोऽवश्यमपेक्ष्यत इत्याशंक्याह, सकृदिति ।