प्रवर्ततां सुखेनायं को बाधोस्य प्रवर्तने ॥ ९८ ॥ |
तत्वविद्ब्रह्म न ध्यायेद्यदि निरोधाभावात्तस्य चित्तं सदा बहिर्बाह्यविषयेषु प्रवर्तेत । तत्रेष्टापत्तिमाह, प्रवर्ततामिति । अयं ज्ञानी सुखेन बहिः प्रवर्तताम् । ब्रह्मज्ञानस्य बाह्यप्रवृत्तेर्बाधः किं न स्यादिति शंकां परिहरति, क इति । अस्य ज्ञानिनो बाह्यप्रवर्तने को बाधः ? बाह्यप्रवृत्तेर्मिथ्यारूपत्वाब्रह्मज्ञानस्य न बाध इत्यर्थः ॥ ९८॥
तत्त्वविदो बाह्यप्रवृत्तेरंगीकारेऽनुचिताचरणप्रसक्तिरियाशंक्य परिहरति, अतीति ।
अतिप्रसंग इति चेत्प्रसंगं तावदीरय । |
अतिप्रसंगः उचितमतिक्रम्य प्रसंग इति चेदुचितं प्रसंगं तावदीरय । स दुर्निरूप इति भावः । स दुर्निरूपो न भवति किन्तु विधिशास्त्रं विधिनिषेधशास्त्रम् प्रसंग इति चेन्न । कुतः ? तद्विधिनिषेधशास्त्र तत्त्वविदं प्रति नोक्तम् । विधिनिषेघशास्त्रं न तत्ववित्परम् । किंत्वविद्यावित्परम् । तदतिक्रमस्तत्त्वविदं प्रति दोषत्वेन नोद्भाव्य इति तात्पर्यम् ॥९९॥
विधिनिषेधशास्त्राणामविद्यावद्विषयत्वं विवृणोति, वर्णेति ।
वर्णाश्रमवयोऽवस्थाभिमानो यस्य विद्यते । |
वर्णाश्रमवयोऽवस्थाभिमानः वर्णा ब्राह्मणाद्या, आश्रमा गार्हस्थ्यादयः, वय उपनयनादिवैदिककर्माचरणयोग्यकालः । अवस्था बाल्यादिकास्तेष्षभिमानो यस्य विद्यते तथैव सकलाः शास्त्रप्रतिपादिता निषेधाः विधयश्च। शास्त्राणां तत्तदुल्लेखेन विधिनिषेधबोधकत्वात् ॥ १०० ॥
नतु देहधारित्वाद् ज्ञानिनोऽपि वर्णाश्रमाद्यभिमानोऽस्त्येवेत्याशंक्य मायापरिकल्पितत्वाद्वर्णाश्रमादयो देहस्य न त्वात्मत इत्याह, वर्णेति ।