पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१०
[ध्यानदीप
पञ्चदशी

वर्णाश्रमादयो देहे मायया परिकल्पिताः ।
नात्मनो बोधरूपस्येत्येवं तस्य विनिश्चयः ॥ १०१ ॥

 सुलभा पदयोजना । एवं निश्चितत्वात्तस्य वर्णाश्रमाद्यभिमानराहित्येन तं प्रति शास्त्रं न प्रवृत्तमिति भावः ॥ १०१ ॥

 उक्तमर्थं द्वाभ्यां प्रपंचयति, समाधिमिति ।

समाधिमध कर्माणि मा करोतु करोतु वा।
हृदयेनास्तसर्वास्थो मुक्त एवोत्तमाशयः ॥ १०२॥

 यो हृदयेन मनसा आस्तसर्वास्थः आस्ता निरस्ताः सर्वा आस्थाः आसक्तिविशेषा येन सः परित्यक्तसर्वसङ्गः स उत्तमाशयः । अतः सः मुक्तः एव । स समाधिं चित्तैकाग्र्यं कर्माणि विहितानि करोतु अथवा मा करोतु । न तेनास्य लाभालाभौ विद्येते "निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेघ", इति भगवत्पादाः ॥ १०२॥

 अस्मिन्नर्थे वचनान्तरमाह,नैष्कम्यैति ।

नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः ।
न समाधानजप्याभ्यां यस्य निर्वासनं मनः ॥ १०३ ॥

 यस्य मनः निर्वासनं निर्धूताखिलद्वैतसंस्कारं तस्य विदुषः सन्यासिनो नैष्कर्म्येण कर्मराहित्येन अर्थात् सन्यासेन अर्थः प्रयोजनं नास्ति । न च कर्मभिः समाधानजप्याभ्यां समाधानं समाधिः जप्यं जपयोग्यं ओंकारादि ताभ्यां च न प्रयोजनम् ॥ १०३ ॥

 तत्त्वविदो निर्वासनत्वे हेतुमाह,आत्मेति ।

आत्मासङ्गस्ततोऽन्यत्स्यादिन्द्रजालं हि मायिकम् ।
इत्यचञ्चलनिर्णीते कुतो मनसि वासना ॥ १०४ ॥

 आत्मा असङ्गः ततः आत्मनोऽन्यत्। तद्भिन्नं जगदादिकं मायिकं