पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
४११
कल्याणपीयूषव्याख्यासमेता

मायाकल्पितं इन्द्रजालं आभासमात्रमिति अचञ्चलनिर्णीते दृढं निश्चिते मनसि । वासना द्वैतसंस्कारः कुत आयाति नायातीति भावः ॥ १०४ ॥

 एवं सति तत्त्वविदैः प्रसङ्गाभावेऽतिप्रसङ्गः कैमुतिकसिद्ध इत्युपसंहरति,एवमिति।

एवं नास्ति प्रसङ्गोऽपि कुतोऽस्यातिप्रसंजनम् ।
प्रसङ्गो यस्य तस्यैव शंक्येतातिप्रसंजनम् ॥ १०५ ॥

 सुलभा पदयोजना । वर्णाश्रमाद्युपेतं द्वैतज्ञानविशिष्टं प्रत्येव सर्वं विधिनिषेधशास्त्रं प्रवर्तते । न तु ज्ञानिनं प्रति। यस्य तच्छास्त्रप्रसङ्गस्तम्यैवातिप्रसङ्गोऽपि । विदुषस्तस्याविषयत्वात्तं प्रति प्रसङ्गो वातिप्रसङ्गो वा शकितुमशक्य इति भावः ॥ १०५ ॥

 तत्रोदाहरणमाह, विधीति ।

विध्यभावान्न बालस्य दृश्यतेऽतिप्रसंजनम् ।
स्यात्कुतोऽतिप्रसङ्गोऽस्य विध्यभावे समे सति ॥ १०६॥

 सुलभा पदयोजना । बालस्यानुपनीतस्य विधिनिषेधयोरभावः। बालस्य तत्त्वविदश्च विधिनिषेधयोरभावस्य समे सति तयोरतिप्रसङ्गोऽपि सम एवेति भावः ।। १०६ ॥

 बालस्याज्ञत्वान्न समीचीनोऽयं दृष्टान्त इत्यत आह, नेति ।

न किंचिद्वत्ति बालश्चेत्सर्वं वेत्त्येव तत्त्ववित् ।
अल्पज्ञस्यैव विधयः सर्वे स्युर्नान्ययोर्द्वयोः ॥ १०७ ॥

 बालः किंचिदपि न वेत्तीति तस्य विध्यभाव इति चेत् तत्त्ववित् सर्वं वेत्त्येवेति तस्यापि विध्यभावः । सर्वे विधयो निषेधाश्च अल्पज्ञस्यैव । अन्ययोः अल्पज्ञेतरयोरज्ञप्राज्ञयोर्द्वयोः ते न स्युः। तत्त्वविदः सर्वज्ञत्वान्न तं प्रत्यज्ञातज्ञापनरूपा विधिः प्रवर्तते । अनेकशास्त्रपारगोप्यतत्वविदल्पज्ञ एवेत्यत्राकूतं भवति॥१०७

 ननु शापानुग्रहसमर्थ एव तत्त्वविदित्याशंक्य तत्स्वामर्थ्यं तपसः फलं न