पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
[ध्यानदीप
पञ्चदशी

तु तत्त्वज्ञानस्येत्याह,शापेति ।

शापानुग्रहसामर्थ्ये यस्यासौ तत्त्वविद्यदि ।
तन्न शापादिसामर्थ्यं फलं स्यात्तपसो यतः ॥१०८॥

 शापो निग्रहः, स्पष्टमन्यत् ॥१०८॥

 ननु तपसः शापादिसामर्थ्यकारणत्वमभ्युपगतम् । ज्ञानस्य तन्निराकृतम्। तन्न संगच्छते । ज्ञानिनामपि व्यासादेश्शापादिसामर्थ्यस्य दर्शनादित्यत आह,व्यासेति।

व्यासादेरपि सामर्थ्यं दृश्यते तपसो बलात् ॥१०८॥

 तत्वविदामुत्तमस्य व्यासादेरपि सामर्थ्यं शापादिसामर्थ्यं यत् तत्तपसोबलात् तप:प्रभावादेव दृश्यते न तु ज्ञानात् ॥ १०८॥

 नु तपस्विनां व्यासादीनां ज्ञानशापादिसामर्थ्ययोरुभयोरपि दर्शनात्तप एव ज्ञानद्वारा शापादिसामर्थ्यकारणभित्यायाति । तथा च ज्ञानस्य द्वारभूतस्य शापादिसामर्थ्यहेतुत्वमर्थात्सिद्धम् । यागद्वारभूतधर्मादेस्स्वर्गादिहेतुत्ववदित्याशंक्याह, शापेति ।

शापादिकारणादन्यत्तपो ज्ञानस्य कारणम् ॥ १०९॥

 ज्ञानस्य कारणं हेतुभूतं तपः शापादिकारणात्तपसोऽन्यत् । “तपसा ब्रह्म विजिज्ञासस्वे” (तै.३-२) त्यत्र तपश्शब्देन गुरुशास्त्रावगतस्य मननमभिधीयते, न तु किञ्चिद्देवताकस्य मन्त्रस्य पुरश्चरणेन सिद्धिः । एवं च तपसः शापादिसामर्थ्यहेतुभूतस्य न द्वारभूतं ज्ञानम् । तथा च ज्ञानस्य । शापादिसामर्थ्यहेतुत्वं नार्थसिद्धमिति भावः ॥ १०९॥

 व्यासादीनां तपस्विनामुभयमपि दृश्यत इत्याशंक्य समाधत्ते, द्वयमिति।

द्वयं यस्यास्ति तस्यैव सामर्थ्यज्ञानयोर्जनिः ।
एकैकं तु ततः कुर्वन्नेकैकं लभते फलम् ॥ ११० ॥

 स्पष्टोऽर्थः ॥ ११० ॥