विधिशास्त्राननुसरणे शापानुग्रहसामर्थस्यालभ्यत्वात् सामर्थ्याभाव प्रयुक्ता निन्दा स्यादित्याह,सामर्थ्येति ।
सामर्थ्यहीनो निन्द्यश्चेद्यतिभिर्विधिवर्जितः। |
सुगमा पदयोजना । विहितानुष्टातारो यतयो भोगलंपटैर्निन्द्यन्ते । न तावता तेषां काऽपि क्षतिः । तथैव शापादिसामर्थ्यविरहितस्य ज्ञानिनो तद्वद्यतिकृतनिन्दया न काऽपि हानिरिति तात्पर्यम् ॥१११॥
नन्वेतेऽपि निजभोगतृष्णोपशमनाय विषयान् संगृह्णीयुरित्याशंक्य तेषां पूर्णवैराग्यराहित्यमेवात्र कारणमित्याह, भिक्षेति ।
भिक्षावस्त्रादि रक्षेयुर्यद्येते भोगतुष्टये । |
एते यतयो भोगतुष्टये भोगेच्छासन्तर्पणाय भिक्षावस्त्रादि आदिशब्देन मठादिकं च, यदि रक्षेयुः एतेषां यातित्वं वैराग्यभरमंथरं संपूर्णवैराग्यविधुरमित्यहो इत्याश्चर्यद्योतकम् । न तेषां काषायकर्पटककमण्डल्वादिसंकुलं यतित्वं वास्तवं किन्तु लोकानां यतित्वभ्रमजननमात्रोपयोगीत्याशयः ॥ ११२ ॥
यथा मूढानां निन्दया वर्णाश्रमधर्मपराणां नो हानिस्तथा देहाभिमानिनिन्दया न काप्यात्मविदो हानिरित्याह, वर्णेति ।
वर्णाश्रमपरान् मूढा निन्दन्त्वित्युच्यते यदि । |
सष्टोऽर्थः । गुरुशास्त्राभ्यामवगतस्य मनननिदिध्यानात्मकं ब्रह्मज्ञानोपकारकं तपः यत्किञ्चिद्देवताकस्य मन्त्रादेः पुरश्चरणरूपेण तपसा भिन्नभिति विषयप्ररोचना- यामेवातीतश्लोकपंचकस्य तात्पर्यमिति बोध्यम् ॥११३॥
एवं श्लोकषट्केन तत्त्वविदो देहाभिमानराहित्यं ज्ञानवलक्षण्य च प्रदर्श्य तत्त्वविदविरोधित्वाल्लौकिकं सम्यगाचेरदि (९-८७) युक्तार्थे निगमयति,