पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१४
[ध्यानदीप
पञ्चदशी

तदिति।

तदिद्धम् तत्त्वविज्ञाने साधनानुपमर्दनात् ।
ज्ञानिनाचरितुं शक्यं सम्यग्राज्यादि लौकिकं ॥११४॥

 तत् तत इद्धं तत्त्वविज्ञाने सति साधनानुपमर्दनात् व्यवहृतेः साधनानां मनआदीनामनुपमर्दनात् मिथ्यात्वज्ञानेऽपि तन्नाशाभावात् राज्यादि लौकिकं राज्य- परिपालनादिलोकव्यवहारः सम्यगाचरितुं ज्ञानिना जनकादिना शक्यम् ॥ ११४॥

 ननु साधनादिषु ज्ञानिनो मिथ्यात्वबुद्धेस्तत्रेच्छा नोदेतीति चेत् तस्येच्छाभावेऽपि प्रारब्धानुसारिणी प्रवृत्तिः स्यादित्याह, मिथ्येति ।

मिथ्यात्वबुद्ध्या तत्रेच्छा नास्ति चेत्तर्हि मास्तु तत् ।
ध्यायन् वाथ व्यवहरन् यथारब्धं वसत्वयम् ॥ ११५ ॥

 जगतो मिथ्यात्वबुद्ध्या ज्ञानिनस्तत्रव्यवहारे इच्छा नास्ति चेत् तर्हि तदिच्छा मास्तु । अस्माकमपीष्टमेवेति भावः ननु तर्हि लौकिकव्यवहारस्येच्छा- पूर्वकत्वेन दृष्टत्वात् तदभावे राज्यादिव्यवहारः कथं सिध्यतीत्याशंक्य समाधत्ते, तदिति । तत् राज्यादिलौकिकं यथारब्धं प्रारब्धानुसारेण ध्यायन् अथवा व्यवहरन् अयं ज्ञानी वसतु । उदासीनस्तिष्ठतु । राज्यादिलौकिको व्यवहारः प्रारब्धकृतो न त्विच्छाप्राप्त इति भावः ॥ ११५ ॥

उपासकस्य ध्यानैकपरत्वविचारः ।

 एवमुपासकतत्त्वविदोर्भेदवर्णनाप्राप्तं तत्त्वविदोऽवस्थाकथनमुपसंहरन्तुपासकस्य ध्यानैकपरतां स्थापयति, उपासक इति ।

उपासकस्तु सततं ध्यायन्नेव वसेद्यतः।
ध्यानेनैव कृतं तस्य ब्रह्मत्वं विष्णुत्वादिवत् ॥ ११६ ॥

 ज्ञानो व्यवहारध्यानसमाधीन् करोतु मा करोतु । उपासकस्तु ध्यायन्नेव अनवरताभ्यस्यमानोपास्यवस्तुचिन्तनामेव कुर्वन् सततमनिशं वसेत् । तत्र कारणमाह यत इति, यतस्तस्योपासकस्य ब्रह्मत्वं विष्णुत्वादिवत् चतुभुजाद्युपेतें