पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
४१५
कल्याणपीयूषव्याख्यासमेता

विष्ण्वादिदेवतास्वरूपमिव ध्यानेनैव कृतं सिद्धम् । भावनाकल्पितं न तु वास्तवमिति भावः ॥ ११६ ॥

 तस्यावास्तवत्वं दर्शयति, ध्यानेति ।

ध्यानोपादानकम् यत्तद्ध्यानाभावे विलीयते ।
वास्तवी ब्रह्मता नैव ज्ञानाभावे विलीयते ॥ ११७ ॥

 यत् ध्यानोपादानकं यस्य ध्यानमेवोपादानकारणं तत् ध्यानमूलकमिति यावत् उपासकस्य ब्रह्मत्वं ध्यानाभावे विलीयते नश्यति । उपादानकारणनाशे कार्यस्य नाशसंभवात् । ज्ञानिनो ब्रह्मता वास्तवी । अतो ज्ञानाभावे नैव विलीयते । सिद्धरूपत्वात् । उपासकस्य ध्यानजन्यो ब्रह्मभावो ध्याननाशे स्वयं नश्यति । न तथा वास्तवी ब्रह्मता । स्वतस्सिद्धत्वात् । न तत्र ज्ञानं कारणम् । वस्तुस्वरूप समर्पणमात्रेणैव तस्य चरितार्थत्वात् ॥११७॥

 "नैव ज्ञानाभावे विलीयत" इति चतुर्थपादार्थं स्वयमेव व्याचष्टे, तत इति ।

ततोऽभिज्ञापक ज्ञानं न नित्यं जनयत्यदः ।
ज्ञापकाभावमात्रेण न हि सत्यं विलीयते ॥ ११८ ॥

 यतोऽदो ब्रह्मत्वं नित्यं ततो ज्ञानं तस्याभिज्ञापकं भवति यथार्थस्वरूप समर्पकमात्रमेव भवति । किंतु तन्न जनयति नोत्पादयति । अतोऽज्ञानावरणोच्छेद मात्रमेव तेषां प्रयोजनम् । "अवगतिनिष्ठान्येव ब्रह्मवाक्यानीत्यर्थः । तत्र व्यति रेकमुखेनोपपत्तिं दर्शयति, ज्ञापकेति । ज्ञापकाभावमात्रेण सत्यं न विलीयते न नश्यति । तिरस्करण्यपनयनाभावमात्रेणान्तर्दीपप्रकाशो न विलीयते । अपि तु बहिर्न स्फुरति ॥ ११८ ॥

 उपासकानां ज्ञानिनां च वस्तुतो ब्रह्मता तुल्यैवेति शंकते, अस्तीति ।

अस्त्येवोपासकस्यापि वास्तवी ब्रह्मतेति चेत् ।
पामराणां तिरश्चां च वास्तवी ब्रह्मता न किम् ॥११९॥