सुगमा पदयोजना । उपासकज्ञानिनोर्ब्रह्मताया वास्तवत्वसमत्वमात्रेण नोपासकस्य पुरुषार्थः । पशुपामराणां वास्तवी ब्रह्मताऽस्त्येव । तथा च तेषामपि पुरुषार्थः प्रसज्येत । अतो ब्रह्मतामात्रेणोपासकः पामरादिवत् पुरुषार्थानर्ह इति भावः ॥ ११९ ॥
ननु पामरादीनां विद्यमानस्यापि ब्रह्मत्वस्याज्ञातत्वान्न तेषां पुरुषार्थ इत्यशंक्य अज्ञातत्वमुपासकस्यापि सममित्याह, अज्ञानादिति ।
अज्ञानादपुमर्थत्वमुभयत्रापि तत्समम् ॥ ११९॥ |
उभयत्रापि पामरोपासकयोः यथार्थवस्तुस्वरूपस्य अज्ञानात् तदपुमर्थत्वं पुरुषार्थाभावः सम तुल्यमेव ॥ ११९॥
तथा सत्युपासनं किमर्थमभिधीयत इत्याशम्क्येतरेभ्यस्तस्य वरिष्टत्वादिति सदृष्टान्तमाह, उपवासादिति ।
उपवासाद्यथा भिक्षा वरं ध्यान तथान्यतः ।। १२० ॥ |
यथा भिक्षा उपवासात् भोजनाभावाद्वरं तथा ध्यानं अन्यत इतरानुष्ठानेभ्यो वरम् ॥ १२०॥
निर्गुणोपासनस्य विज्ञानसामीप्यत्वविचारः ।
अनुष्ठानान्तरेभ्य उपासनस्य वरिष्टत्वप्रदर्शनाय कृषिनित्यकर्मसगुणनिर्गुणोपासनानां पूर्वपूर्वस्मादुत्तरोत्तरस्य श्रैष्ठ्यं दर्शयति, पामरेति ।
पामराणां व्यवहृतेर्वरं कर्माद्यनुष्ठिताः । |
व्यवहृतिः कृषिवाणिज्यादि। कर्म नित्यनैमित्तिकादि। स्पष्टमन्यत् ॥ १२१॥
एवमुत्तरोत्तरस्योत्तमत्वे कारणमाह, यावदिति ।
यावद्विज्ञानसामीप्यं तावच्छ्रैष्ठ्यं विवर्धते । |