यावदनुष्ठानस्य विज्ञानसामीप्यं तत्त्वज्ञानस्य सन्निहितत्वं तावत् उत्कृष्ठता विवर्धते । अतो वाणिज्यकर्माचरणसगुणोपासनानां पूर्वपूर्वस्मादुत्तरोत्तरस्य श्रेष्ठत्वम् । निर्गुणोपासनस्य तु तेभ्योऽप्युत्तमत्वे कारणमाह, ब्रह्मेति। निर्गुणोपासनं तु शनैः क्रमशः साक्षात् ब्रह्मज्ञानायते | ब्रह्मज्ञानमिवाचरति। ब्रह्मज्ञानस्यात्यन्त- सन्निहितत्वान्निर्गुणोपासनस्योत्कृष्ठतमत्वमिति भावः । १२२ ॥
निर्गुणोपासनं शनैर्ब्रह्मज्ञानायत इत्युक्तमर्थं स्पष्टयति, यथेति ।
यथा संवादिविभ्रान्तिः फलकाले प्रमायते । |
फलकाले ईप्सितार्थप्राप्त्यनुकूले काले प्रमेवेप्सितार्थं प्रापयति । विद्यायते मोक्षकाले ब्रह्मणो यथार्थज्ञानमिवाचरति तत्फलवद्भवति । स्पष्टमन्यत् ॥ १२३ ॥
ननु संवादिभ्रान्तिर्न स्वयमेव प्रमायते । तत्प्रवृत्तस्य यथार्थवस्तुसामीप्यानयनमात्रेणैव तस्य चरितार्थता । प्रमा त्विन्द्रियार्थसन्निकर्षेण जायत इत्यत आह, संवादीति ।
संवादिभ्रमतः पुनः प्रवृत्तस्यान्यमानतः । |
संवादिभ्रमतः प्रवृत्तस्य पुंसोऽन्यमानतः प्रत्यक्षादिप्रमाणान्तरात् वस्तुनः प्रमा जायत इति चेत् इष्टमेव । तथा निर्गुणोपास्तिः मान्तरे प्रमाणान्तरे कारणायताम् । यथा संवादिभ्रमः प्रमाजनकप्रमाणे कारणं भवति तथोपास्तिरप्यपरोक्षज्ञाने कारणं भवत्विति तात्पर्यम् ॥ १२४ ॥
नन्वपरोक्षज्ञाने मूर्तिध्यानादेः कारणत्वं किं नाङ्गीक्रियत इति चेदस्त्वित्याह, मूर्तीति ।
मूर्तिध्यानस्य मन्त्रादेरपि कारणता यदि । |
चतुर्भुजादिमूर्तिध्यानस्य गायत्र्यादिमन्त्रादेरपि चित्तैकाग्र्यसंपादनद्वारा