पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१८
[ध्यानदीप
पञ्चदशी

ब्रह्मणोऽपरोक्षज्ञाने कारणतां स्याद्यद्यस्तु नाम । तर्हि निर्गुणोपासने को विशेष इत्यत आह, तथेति । तथाप्यत्र निर्गुणोपासने प्रत्यासत्ति: ज्ञानस्य सन्निहितत्वं विशिष्यते । विशेषतो वर्तते ॥ १२५॥

 निर्गुणोपासने प्रत्यासत्त्यतिशयं प्रदर्शयति, निर्गुणेति ।

निर्गुणोपासनं पक्वं समाधिः स्याच्छनैस्ततः ।
यः समाधिर्निरोधाख्यः सोऽनायासेन लभ्यते ॥ १२६ ॥

 निर्गुणोपासनं पक्वं सत् शनैः समाधिः सविकल्पकसमाधिः स्यात् । ततः सविकल्पकसमाधेः निरोधाख्यः तन्नामको यो निर्विकल्पकसमाधिर्विद्यते सोऽनायासेन लभ्यते ॥ १२६ ॥

 निरोधाख्यसमाधिलाभे प्रयोजनमाह, निरोधेति ।

निरोधलोभे पुंसोऽन्तरसंगंं वस्तु शिष्यते ।
पुनः पुनर्वासितेऽस्मिन्वाक्याज्जायते तत्त्वधीः ॥ १२७ ॥

 निरोधलाभे निर्विकल्पकसमाधेः प्राप्तौ पुंसः उपासकस्य अन्तः अन्तःकरणे असंगं संगरहितं आत्मवस्तु शिष्यते अवशिष्यते । अस्मिन्नसंगवस्तुनि पुनः पुनः वासिते भाविते सति तत्त्वमस्यादिमहावाक्यात्तत्त्वधीः अपरोक्षसाक्षात्कारो जायते । अत्रायं भावः । सगुणोपासनापेक्षया निर्गुणोपासने ज्ञानस्य सन्निहितत्वं । विशेषतो वर्तते; पक्वे निर्गुणोपासने सविकल्पकसमाधिः, ततो निर्विकल्पकसमाधिः; तत्त्रासंगवस्तुन्यसकृद्भाविते तत्त्वमस्यादिमहावाक्यार्थविचारणेन अपरोक्षसाक्षात्कारो भवतीत्युपासनायाः ब्रह्मज्ञानोपकारकत्वमिति ॥१२७॥

 तत्त्वज्ञानस्य स्वरूपजन्मनी विशदयति, निर्विकारेति ।

निर्विकारासंगनित्यस्वप्रकाशैकपूर्णतः ।
बुद्धौ झटिति शास्त्रोक्ता आरोहन्त्यविवादतः ॥ १२८ ॥

 शास्त्रोक्ता निर्विकारासंगनित्यस्वप्रकाशैकपूर्णताः विकारविधुरत्वं संगराहित्यं त्रैकालिकाबाध्यत्वं स्वप्रकाशत्वं परिपूर्णत्वं एतानि झटिति अविवादतः