बुद्धावारोहन्ति ॥ १२८॥
अत्र प्रमाणमाह, योगेति ।
योगाभ्यासस्त्वेदर्थोऽमृतबिंद्वादिषु श्रुतः । |
एतदर्थो निर्विकारत्वादिपूर्णतान्तानां बुद्ध्यारोहणं यस्य प्रयोजनं स योगाभ्यासो निर्गुणोपासनं अमृतबिंद्वादिषूपनिषत्पु श्रुतः। आदिशब्देन कठवल्लादिर्गृह्यते । एवं सति दृष्टद्वारा निर्विकल्पकसमाधिलाभद्वारा अपिशब्दाददृष्टद्वाराऽपि अपरोक्षज्ञानस्य हेतुत्वात् सन्निहितसाधनभूतत्वात् अन्यतः सगुणोपासनादिभ्यो निर्गुणोपासनं वरं श्रेष्ठम् । “निरस्तविषयासंगं संनिरुद्धं मनो हृदि । यदा यात्युन्मनीभावं तदा सत्परमं पद"मिति (अ.बिम्. ४) “एतदालंबनम्गं श्रेष्ठमेतदालंबनं परं । एतदालंबनं ज्ञात्वा ब्रह्मलोके महीयते” (कठ.१.२.१७.) इत्युक्ते श्रुती ॥ १२९॥
एवमपरोक्षज्ञानसाधनक्षमं मार्गमुपेक्ष्य तीर्थयात्रादिकक्ष्यान्तरमपेक्षमाणानामविचक्षणतां लौकिकन्यायेनोपक्षिपति, उपेक्ष्येति ।
उपेक्ष्य तत्तीर्थयात्राजपादीनेव कुर्वताम् । |
स्पष्टं पूर्वार्धम् । पिंडं करतलकलितं पायसादि समुत्सृज्य शुष्कं करं लेढि आस्वादयतीति न्याय आपतेत् । केवलतीर्थयात्राजपादीन् परमसाधनतया गृहीतवतामाचार एवात्र विषय एवेत्येवार्थः ॥ १३० ॥
उपासने अधिकारिविचारः।
ननु साक्षात्कारकारणमात्मतत्त्वमुत्सृज्य ततो व्यवहितफलकं निर्गुणो पासनमनुसरतामपि तन्न्यायगोचरत्वं समानमित्याशंक्य विचारचतुरेतराणा मिदं विधीयत इत्याह, उपासकानामिति ।
उपासकानामप्येवं विचारत्यागतो यदि । |