पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
[ध्यानदीप
पञ्चदशी

 निर्गुणब्रह्मतत्त्वस्य विचारत्यागता मननादिपूर्वकविचारपरित्यागान्निर्गुणब्रह्मण उपासकानामपि एवं पिंडमुत्सृज्य करं लेढीति न्याय आपतेदिति चेत् बाढं सत्यमेव । किमर्थं तर्हि निर्गुणोपासनं विधीयत इत्यत आह,तस्मादिति । तस्मात् शक्त्यभावाद्वा भूतभविष्यद्वर्तमानप्रतिबन्धकैर्वा विचारस्यासंभवे योगो निर्गुणोपासना ईरितः ॥ १३१॥

 विचारासंभवे कारणमाह, बह्विति ।

बहुव्याकुलचित्तानां विचारात्तत्त्वधीर्न हि ।
योगो मुख्यस्ततस्तेषां धीदर्पस्तेन नश्यति ॥ १३२॥

 बहुव्याकुलच्चित्तानां अमितव्यापाराकुलितमानसानां विचारात् तत्त्वधीः न जायते । कार्यान्तरोद्विग्नमानसानां मननादेरसंभव इत्यर्थः । ततस्तेषां योगो निर्गुणोपासना मुख्यः । तेन धीदर्पो बुद्धेश्चांचल्यं नश्यति । मुख्योपायेऽशक्त्ताना- मुपायान्तरमवश्यमश्रयणीयमिति भावः ॥ १३२ ॥

 अव्याकुलितचित्तानां सुसाधत्वाद्विचारो मुख्य इत्याह, अव्याकुलितेति ।

अव्याकुलितधियां मोहमात्रेणाच्छादितात्मनाम् ।
साङ्ख्यनामा विचारः स्यान्मुख्यो झटिति सिद्धिदः॥१३३॥

 प्रतिबन्धैरव्याकुलितबुद्धीनां धीदर्परहितानां मोहमात्रेण अज्ञानमात्रेण आच्छादितात्मनां पिहितमनस्कानां साङ्ख्यनामा विचारः पञ्चकोशविवेचना- पूर्वकतत्वविचारो मुख्यः स्यात् । “ज्ञानयोगेन साङ्ख्यानामंकर्मयोगेन योगिना"मिति (गी. ३-३) स्सृतेः । तस्य मुख्यत्वं प्रतिपादयति झटितीति, स विचारो झटिति शीघ्रम् सिद्धिदो मोक्षप्रदो भवति ॥ १३३ ॥

 साङ्ख्ययोगयोरुभयोरपि मोक्षसाधनत्वे श्रीकृष्णवाक्यमुदाहरति, यदिति ।

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ १३४ ॥