पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२४
[ध्यानदीप
पञ्चदशी

समविलीयन्ते ब्रह्मैव सन् ब्रह्मप्येतीति (ऊ.ता.५.) तापनीये तन्नमकोपनिषदि ‘अशरीरो निरिन्द्रियो’ इत्यारभ्य “य एवं वेदेति रहस्यं” इत्यन्तेन मन्त्रवर्णेन अभयं हीति संसारान्निर्भयत्वं चेति अकामोपहतस्य निर्गुणोपासकस्य मुक्तत्वं मोक्षम् फळ फलत्वेन श्रुतमित्यर्थः ॥ १४१ ॥

 ननु निर्गुणोपासनाया मोक्षफलकत्वे सति "नान्यः पन्था विद्यतेऽयनायेति”(श्वे.३.८.) श्रुतिविरोधः स्यादित्याशंक्य मोक्षावाप्तिसाधनैकभूतस्य ज्ञानस्योपासनाजन्यत्वान्न विरोध इत्याह, उपासनस्येति ।

उपासनस्य सामर्थ्याद्विद्योत्पत्तिर्भवेत्ततः ।
नान्यः पन्था इति ह्येतच्छास्त्रं नैव विरुध्यते ॥ १४२ ॥

 उपासनस्य सामर्थ्यात् विद्योत्पत्तिर्भवेत् । ततो "नान्यः पन्था विद्यतेऽयनायेत्ये (श्वेता.३-८) तच्छास्त्रं न विरुध्यते । ज्ञानादेवतु कैवल्यम् । ज्ञानम् चोपासनासामर्थ्यादुत्पद्यते इत्युपासनस्य मोक्षसाधनत्वोक्तिः श्रुत्यविरुद्धेति भावः ।

 उपासनस्य मोक्षसाधनत्वे ज्ञानस्य द्वारभूततया द्वारेण द्वारिणोऽन्यथा सिद्ध्यभावेनोपासनस्य साधनत्वमबाधितम् । अव्यवधानेन फलजनकस्यैव द्वारभूत- तया तादृशं जनकत्वं नान्यः पन्था इत्यनेन वाक्येन ज्ञानस्य बाधितम् । एवं चोभयोर्वाक्ययोर्द्वारद्वारिणोर्यथायोगं जनकत्वबोधकतया न परस्परविरोधः ॥ १४२ ।।

 निष्कामकृतनिर्गुणोपासनाया मुक्तिफलकत्वं निगमयति, निष्कामेति ।

निष्कामोपासनान्मुक्तिस्तापनीये समीरिता ॥ १४२॥

 तापनीये “सोऽकामो निष्काम" (उ.ता.५) इति वाक्ये ॥१४२॥

 सकामकृतनिर्गुणोपासनाया ब्रह्मलोकफलकत्वं सप्रमाणमुपपादयति, ब्रह्मलोक इति ।

ब्रह्मलोकः सकामस्य शैब्यप्रश्ने समीरितः ॥ १३ ॥

 सकामस्य निर्गुणोपासकस्य ब्रह्मलोकः शैब्य प्रश्ने “यः पुनरेतत्रिमात्रेणोमित्यनेनैवाक्षरेणे"त्यारभ्य “पुरिशयं पुरुषमीक्षते” इत्यन्ते (प्रश्न. ५) पञ्चमे समीरितः॥ १४३ ॥