उक्तं शैब्यप्रश्नवाक्यमर्थतः पठति, य इति ।
य उपास्ते त्रिमात्रेण ब्रह्मलोके स नीयते । |
यस्त्रिमात्रेण अकारोकारमकाररूपमात्रत्रयविशिष्टेनोंकारेण उपास्ते स ब्रह्मलोके नीयते । “तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवयानः पन्था” । (छां.५.१०.२) इति श्रुतेः । ननूक्तश्रुतिवाक्ये ब्रह्मलोकावाप्तिमात्रस्यैव श्रूयमाणत्वात् सकामोपासको मोक्षावाप्तौ हताश एवेश्याशंक्य ब्रह्मलोकगमनानन्तरं विद्यामास्थाय परमपुरुषमीक्षत इत्याह, स इति । स एवं नीयमानः सकामस्तत्र ब्रह्मलोके सर्वपाप्मना मुक्तो भूत्वा विद्यामास्थाय एतस्माज्जीवघनात् सर्वसंसारिणां जीवनामात्मभूतत्वात् सर्वजीवसंहतस्वरूपाद्धिरण्यगर्भाद्विशिष्टं परं पुरुषं ईक्षते साक्षात्कारोति ॥ १४४ ॥
ननु सकामोपासना द्विप्रकारिका। सत्यसंकल्पत्वाद्यनेकगुणविशिष्टाहम्ग्रहात्मिका एका, जडेषु नामादिषु ब्रह्मप्रत्ययानयात्मिका प्रतीकोपासना अन्या। एवं सत्युभयोरपि ब्रह्मलोकावाप्तिरूपतुल्यफलता आहोस्विदन्यतरस्याः विशेषो वेत्याशंक्य आदिमाया एव तत्फलं न त्वन्तिमाया इति व्याससूत्रं प्रमाणयति,अप्रतीकेति।
अप्रतीकाधिकरणे तक्रतुन्याय ईरितः । |
अप्रतीकाधिकरणे “आश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपः प्रतीकः यथा नामब्रह्म इत्यादौ नामादिषु ब्रह्माश्रयस्य प्रत्ययस्य प्रक्षेपः”, प्रतीकः । स न भवतीत्यप्रतीकः । तमधिकृत्य कृते अधिकरणे । एकार्थप्रतिपादके विषयसंशयपूर्वपक्षसिद्धान्त- फलभेदात्मकपञ्चाङ्गबोधकवाक्यसमुदायरूपं न्यायनिर्णयस्थानमधिकरणम्। तस्मिन् चतुर्थाध्यायतृतीयपादे षष्ठाधिकरणे “अप्रतीकालम्बनान्नयतीति बादरायण उभय- थाऽदोषात्तत्क्रतुश्चति",(सु.४.३.१५.) सूत्रे तत्क्रतुन्याय ईरितः । अस्य सूत्रस्यायमर्थः । सकामोपासकानां मध्ये प्रतीकोपासका “नामब्रह्मेत्युपासीत (उ.ता.७) "आदित्यं ब्रह्मेत्युपास्ते". इति (छां. ३-१९) विविधजडवस्त्वारोपित ब्रह्मदृष्ट्यो