पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
४२७
कल्याणपीयूषव्याख्यासमेता

ओंकारोपासनस्य सगुणत्वनिर्गुणत्वकथनम्।

 निर्गुणोपासनप्रकरणे "य उपास्ते त्रिमात्रेणेति" प्रणवोपासनाकथन- मसंबद्धं, तस्याः सगुणोपासनात्वादित्याशंक्य सा निर्गुणोपासनापीत्याह, प्रणव इति ।

प्रणवोपास्तयः प्रायो निर्गुणा एव वेदगाः ।
क्वचित्सगुणताप्युक्ता प्रणवोपासनस्य हि ॥ १४७ ॥

 वेदगाः प्रश्नकठामृतनादाद्युपनिषत्प्रतिपादिताः प्रणवोपास्तयः ओंकारस्योपास्तयः प्रायो निर्गुणा एव । कचित् प्रणवोपासनस्य सगुणताप्युक्ता ॥१४७॥

 द्वैविध्ये प्रश्नोपनिषदं प्रमाणयति, परेति ।

परापरब्रह्मरूप ओंकार उपवर्णितः।
पिप्पलादेन मुनिना सत्यकामाय पृच्छते ॥ १४८ ॥

 स्पष्टोऽर्थः । "एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः” इत्यु (प्रश्न. ५) पवर्णित: ॥ १४८॥

 तत्र कठवल्लीं प्रमाणमाह,एतदिति ।

एतदालंबनं ज्ञात्वा यो यदिच्छति तस्य तत् ।
इति प्रोक्तं यमेनापि पृच्छते नचिकेतसे ॥ १४९ ॥

 “एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं पर"मिति (कठ.१.२.१६.) इत्येतालम्बनसाधनम् परमपरं च । तत् ज्ञात्वा यस्तयोर्यदिच्छति तस्य तत् सिध्यतीति पृच्छते नचकेतसे यमेन प्रोक्तम् ॥ १४९

निरुक्तार्थस्य पिंडितार्थकथनम् ।

 उक्तमर्थमुपसंहरति, इहेति ।

इह वा मरणे वाऽस्य ब्रह्मलोकेऽथवा भवेत् ।
ब्रह्मसाक्षात्कृतिः सम्यगुपासीनस्य निर्गुणम् ॥ १५० ॥