देहोपलं देह एवोपलः निध्याच्छादकीभूता शिंला तमपाकृत्य उन्मूलनेन बहिर्निस्सार्य मनोभुवं मन एव भूः तां खात्वा तत्र संस्थापितं । मममूल्यरत्ननिचयं निधिं भूयो भूय आतृप्तेः पुमान् गृह्णीयात् । अत्र मनसो भूत्वकथनेन ध्याने मनसः प्राधान्यमुक्तं भवति ॥ १५४॥
विचाराक्षमस्योपासनाधिकारे प्रमाणान्तरमाह, अन्विति ।
अनुभूतेरभावेऽपि ब्रह्मास्मीत्येव चिन्त्यताम् । |
परब्रह्मणोऽनुभूतेरपरोक्षसाक्षात्कारस्याभावेऽपि ब्रह्मास्मीत्येव चिन्त्यताम्। तेन ब्रह्मप्राप्तिः कैमुतिकसिद्धेत्याह, अपीति । ध्यानाद्सत् मिथ्यात्मकं विष्ण्वादि देवत्वमपि प्राप्यते एव । “देवो भूत्वा देवानप्येतीति” (ब. ४.१. ३) इति श्रुतिबलात् । किं पुनः नित्याप्तं नित्यतया हृत्कमलेऽतिसन्निहिततयोपलब्धं ब्रह्मध्यानात् प्राप्यत इति पुनः किमु वक्तव्यम् ॥१५५॥
निर्गुणध्यानफलस्य प्रत्यक्षत्वेऽपि तद्विमुखान् निन्दति, अनात्मेति ।
अनात्मबुद्धिशैधिल्यं फलं ध्यानाद्दिने दिने । |
स्पष्टोऽर्थः ॥ १५६ ॥
प्रकरणादौ प्रतिज्ञातं ब्रह्मतत्त्वोपास्त्यर्थं संक्षिप्य प्ररोचनापूर्वकमुपसंहरति, देहेति ।
देहाभिमानं विध्वस्य ध्यानादात्मानमद्वयम् । |
देहाभिमानं दिह्यते उपचीयत इति देह: स्थूलध्यात्मकः तस्मिन्नश्वरे अभिमानं अहमिदं ममेदमित्यैक्यभावं विध्वस्य ध्यानादुपासनेन अद्वयमात्मानं पश्यन् मर्त्योऽमृतो भूत्वा ध्यानपरिपाकेन भ्रान्तेरपगमे मरणमप्राप्यैव अत्र असिन् जन्मनि ब्रह्म समश्नुते ॥ १५७॥