पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३०
[ध्यानदीप
पञ्चदशी

 फलकथनेन प्रकरणमुपसंहरति, ध्यानेति ।

ध्यानदीपमिमं सम्यक् परामृशति यो नरः।
मुक्तसंशय एवायं ध्यायति ब्रह्म सन्ततम् ॥ १५८ ॥

 य इमं ध्यानदीपं ध्यानस्वरूपस्य दीप इव प्रकाशकं प्रकरणं सम्यक् पूर्वापरसंदर्मेण सकामनिष्कामसगुणनिर्गुणोपासनस्य ज्ञानद्वारा ब्रह्मभावफलकत्वं नित्यर्निर्गुणरूपमिति नामसात्रेण गीयमानस्य संवादिभ्रमवदर्थान्मोक्षफलकत्वं च परामृशति विमर्शनारूपमर्थावबोधं करोति सोऽयं चिन्तको मुक्तसंशयोऽपास्तसर्वसंशयः सन्ततं ब्रह्म ध्यायति ॥ १५८ ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यशृम्गेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्ताप्रियान्तेवासिनात्रि

गोत्रसमुद्भूतेन लिङ्गन सोमयाजिना विरचितेयं ध्यानदीप

प्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति ध्यानदीपप्रकरणम्।