पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

नाटकदीप प्रकरणम् ॥ १० ॥

 अष्टमे साक्षिणः कूटवन्निर्विकारस्वरूपं विस्तरतो व्याख्यातम् । नवमे विचारचतुरेतराणां मन्दधियां मोक्षप्राप्त्युपायत्वेनोपासनाविधानमुपपादितम् । विषयस्य दुरवगाहत्वात्सुकुमारबुद्धीनामुपदेश्यांशस्य रूपकमुखेनोपदेश संप्रदायसिद्ध इति तत्संप्रदायमनुसृत्य साक्षात्कार्यस्य साक्षिणः स्वरूपं नाटकदृष्टान्तेन विशदीचिकीर्षया प्रारभ्यत इदं प्रकरणम्, परमात्मेत्यादिना ।

परमात्माद्वयानन्दपूर्णः पूर्वं स्वमायया ।
खयवेव जगद्भूत्वा प्राविशज्जीवरूपतः ॥ १ ॥

 सृष्टेः पूर्वमद्वयानंदपूर्णः, अद्वयः "एकमेवाद्वितीयं” (छां. ६.२.१) इति श्रुतिबोधितभेदत्रयशून्य, आनन्दः "आनन्दो ब्रह्मेति व्यजानात्"(तै.३-६), इति श्रुतिप्रसिद्धो निरतिशयानंदस्वरूपः, पूर्णः “पूर्णमदः पूर्णमिदम्" (ईश. ) इत्यादि श्रुतिप्रतिपादितः, परमात्मा, परं दृश्यपदार्थजातं माति साक्षित्वेन भासयतीति परमः, स चासावात्मेति परमात्मा स्वमायया “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर" मिति (श्वेत. ४-१०) श्रुत्युक्तस्वनिष्ठमायया स्वयमेवेतरकरणानपेक्षस्सन् जगद्भूत्वा “बहुस्यां प्रजायेय" (तै. २-६) “तदात्मानं स्वयमकुरुत सञ्चत्यच्चाभवत्” (तै. २-६) इत्यादि श्रुतिभ्य, स्वयमेव जगदाकारेण सर्परूपेण रज्जुरिव प्रतीयमानः ‘अनेन जीवेनात्मनाऽनुप्रविश्य", (छां. ६. ३. २.) इति श्रुत्यनुसारं जीवरूपतः प्राविशत् प्रविष्ट इव प्रतीयते । मायानटीसचिवः परमात्मा जगन्नाटकसूत्रधारस्वरूपोऽमेयचित्ररचनारमणीयं सर्वप्राणिसम्मोहनकरं जगन्नाटकमाकलय्य तिर्यङनरामराद्यधममध्यमोत्तमपात्रधारणं स्वयमेवैकयत्नेन कृतवान्नित्यर्थः॥१