पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१०॥ ]
४३५
कल्याणपीयूषव्याख्यासमेता

यथा नृत्यशालास्थदीपवत् नृत्यशालायां रंगभूमौ प्रकाशमानो दीपस्तद्वत् ॥१०॥

 दृष्टान्तमेव विवृणोति, नृत्येति ।

नृत्यशालास्थितो दीपः प्रभुं सभ्यांश्च नर्तकीम् ।
दीपयेदविशेषेण तदभावेऽपि दीप्यते ॥ ११॥

 नृत्यशालास्थितो दीपः नाटकप्रवर्तकं प्रभुं सर्वशक्तिमन्तं राजानं, तदाश्रितान् सभ्यान् , नर्तकीं चाविशेषेण तुल्यमेव दीपयेत् प्रकाशयेत् । तदभावेऽपि प्रभ्वादेरभावेऽपि दीप्यते स्वयं प्रकाशते । सूर्यकान्तिः प्रकाश्यप्रकाशनायैव न प्रकाशते; किंतु प्रकाश्याभावेऽपि प्रकाशते ॥११॥

 दृष्टान्तार्थे दार्ष्टान्तिके समन्वेति, अहमिति ।

अहंकारं धियं साक्षी विषयानपि भासयेत् ।
अहंकाराद्यभावेऽपि स्वयम् भात्येव पूर्ववत् ॥१२ ॥

 साक्षी अहंकारमहमित्यभिमानप्रेरितं जीवं तस्य साधनीभूतां धियं रूपरस- गन्धादीन्विषयानप्येकयत्नेन युगपदेव भासयेत्प्रकाशयेत् । सुषुप्तिकाले सर्वोपरम- समयेऽहंकाराद्यभावेऽपि स्वयं पूर्ववज्जाग्रत्स्वप्नयोरिव साक्षी स्वयं भात्येव ॥ १२॥

 ननु सत्त्वगुणप्रधानाया बुद्धेस्सर्ववस्त्ववभासनसमर्थत्वात्तयैव भाने सिद्धे साक्षिभास्यत्वकल्पना गौरवग्रस्तैव स्यादित्याशंक्य साक्ष्यनवभास्यमाना बुद्धिः स्वयं विषयग्रहणासमर्थेत्याह, निरन्तरमिति ।

निरन्तरं भासमाने कूटस्थे ज्ञप्तिरूपतः ।
तद्भासा भास्यमानेयं बुद्धिर्नृत्यत्यनेकधा ॥ १३ ॥

 कूटस्थे स्वयंप्रकाशे निरन्तरं भासमांने सतीयं स्वयं जडरूपा बुद्धिस्तद्भासा कूटस्थस्य तेजसा भास्यमानाऽनेकधा नृत्यति विविधविषयान्विषयीकरोति ॥ १३॥

 जगतो नाटकत्वरूपकमवयवरूपकपूर्वकं समर्थयति, अहंकार इति ।

अहंकारः प्रभुः सभ्या विषया नर्तकी मतिः ।