पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१०॥ ]
४३७
कल्याणपीयूषव्याख्यासमेता

येते; एवं कथमुच्यते तस्य स्थिरत्वमित्याशंक्याह, अन्तस्थेति ।

अन्तस्था धीः सहैवाक्षैर्बहिर्याति पुनः पुनः।
भास्यबुद्धिस्थचांचल्यं साक्षिण्यारेप्यते वृथा ॥ १७ ॥

 चिदाभासविशिष्टाऽन्तस्था धीश्चक्षुराद्यक्षैरिन्द्रियैस्सह विविधविषयग्रहणाय देहाद्वहिः पुनः पुनर्याति । एवं सति भास्यबुद्धिचांचल्यं साक्षिभास्याया बुद्धेश्चांचल्यम् साक्षिणि वृथाऽऽरोप्यते । वास्तवतो न साक्षिणो गमनागमने ॥ १७॥

 तत्र दृष्टान्तमाह, गृहान्तरेति ।

गृहान्तरगतः स्वल्पो गवाक्षादातपोऽचलः।
तत्र हस्ते नर्त्यमाने नृत्यतीवातपो यथा ॥ १८ ॥

 यथा गवाक्षात् गावः सूर्यकरान् जलानि वाऽक्ष्णुवन्ति व्याप्नुवन्त्येतमनेन वा गवाक्षो वातायनं । तस्माद्गृहान्तरगतः स्वल्प आतपोऽचलश्चांचल्यरहितः । तथापि तत्रातपे हस्ते नत्र्यमाने संचालिते सस्यातपो नृत्यतीव दृश्यते ॥१८॥

 दृष्टान्तार्थम् दार्ष्टान्तिके योजयति, निजेति ।

निजस्थानस्थितः साक्षी बहिरन्तर्गमागमौ ।
अकुर्वन् बुद्धिचांचल्यात्करोतीव तथा तथा ॥ १९ ॥

 निजस्थानस्थितः स्वरूपस्थाने स्थितः साक्षी देहाद्वहिरन्तश्च गमागमावकुर्वन्नपि बुद्धिचांचल्याद्बुद्धेंश्चचलस्वभावात्तथा तथा तदनुरूपं गमागमौ करोतीव । दृश्यते । वस्तुतो न चलतीत्यर्थः ॥ १९॥

साक्षिणो देशकालाद्यनवच्छिन्नत्वकथनम् ।

 ननु निजस्थानस्थितः साक्षी बहिरन्तर्गमागमौ करोतीवेत्यत्र बहिरन्तर्देशौ साक्षिण आहोस्विद्बुद्धेरिति विकल्प्याह, नेति ।

न बाह्यो नान्तरः साक्षी बुद्धेर्देशौ हि तावुभौ ।
बुद्ध्याद्यशेषसंशान्तौ यत्र भात्यस्ति तत्र सः ॥ २०॥