पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१०॥ ]
४३९
कल्याणपीयूषव्याख्यासमेता

 बुद्ध्या यद्यद्घटादिरूपं, आदिशब्देन गंधस्पर्शादिविषयजातं च बुद्ध्या कल्प्येत तत्तत्प्रकाशयन् तस्य तस्य रूपादिकस्य साक्षी भवेत् । तर्हि किं तस्य निजस्वरूपमित्यत आह, स्वत इति । स्वतो वाग्बुद्ध्यगोचरः वाचां तदुपलक्षितेतरेन्द्रियाणां बुद्धेश्चागोचरोऽविषयः । "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" (तै. २. ४.) इति श्रुतेः ॥२३॥

 एवमवाङ्मनसगोचर आत्मा कथं मुमुक्षोर्गाह्यो भवतीत्याशंक्याऽग्राह्यत्व- मस्माकमपीष्टमेवेत्याह, कथमिति ।

कथं तादृङ्मया ग्राह्य इति चेन्मैव गृह्यताम्।
सर्वग्रहोपसंशान्तौ स्वयमेवावशिष्यते ।। २४ ॥

 तादृग्वाग्बुद्ध्यगोचरः साक्षी मया मुमुक्षुणा कथं ग्राह्यो ज्ञेय इति चेत न्मैव गृह्यताम् । ग्राह्यत्वे सति ग्राह्यग्रहणादिरूपद्वैतसत्वान्मुमुक्षोर्न मोक्षावाप्तिरिति गूढाभिसंधिः । ननु तर्ह्यात्मनोऽग्राह्यत्वे विचाराभावःविचाराभावे मायाया विन- शाभवस्तदभावे परमास्मावशेषाभाव, इत्येवंरूपानर्थपरंपरा संभवेदित्याशंक्याह, सर्वेति । सर्वग्रहोपसंशान्तौ बुद्धिकर्तृकस्य सर्वप्रहस्य ग्राह्यग्राहकादिद्वैतभावस्य सशान्तौ मिथ्यात्वबुद्ध्या अपगमे सति परमात्मा स्वयमेवावशिष्यते ।। २४॥

 स्वप्रकाशः प्रमाणान्तरं नापेक्षत इत्याह, नेति ।

न तत्र मानापेक्षाऽस्ति स्वप्रकाशस्वरूपतः ।
तादृग्व्युत्पत्त्यपेक्षा चेच्छ्रुतिं पठ गुरोर्मुखात् ॥ २५॥

 स्वप्रकाशस्वरूपतस्तत्र परमात्मनि मानापेक्षा मानापेक्षा प्रमाणस्यापेक्षा नास्ति । न हि स्वप्रकाशस्य दीपस्य प्रकाशे दीपान्तरापेक्षा । स्वप्रकाशविषये न प्रमाणापेक्षेति ज्ञानोत्पत्तये किं कर्तव्यमित्यत आह, तादृगिति । तादृग्युत्पत्त्यपेक्षा तादृशी परमात्मा स्वयंप्रकाश इत्याकारका व्युत्पत्तिर्ज्ञानं तस्या अपेक्षा विद्यते चेत् संप्रदायकुशलस्य गुरोर्मुखान्न तु स्वकपोलकल्पितपाण्डित्येन श्रुतिं पठ । “तद्भिज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्” (मुं. १. २. १२.)। "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया” (गी. ४–३६) इति श्रुतिस्मृतिभ्याम् ॥२५