पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४०
[नाटकदीप
पञ्चदशी

 नन्वेवं सर्वग्रहत्यागाशक्तानां मन्दधियां का गतिरित्याशंक्याह, यदीति ।

यदि सर्वग्रहत्यागोऽशक्यस्तर्हि धियं व्रज ।
शरणं तदधीनोऽन्तर्बहिर्वैषोऽनुभूयताम् ।। २६ ॥

 यदि सर्वगहत्यागोऽशक्यस्तर्हि धियं शरणं व्रज । ततः किं स्यात् ? तद्धीनस्तस्या बुद्धेरधीन एष परमात्मा अन्तर्बहिर्वाऽनुभूयतां, बुद्ध्या यदाऽऽन्तरं बाह्यम् च द्वैतं कल्प्यते तस्य साक्षितया तदधीनः परमात्मा तथैवानुभूयताम्। बुद्धिपरिकल्पितनामरूपादीन् , तदवभासकं चिदाभासंं च मिथ्यात्वेन निश्चित्य तेभ्यस्साक्षिणं विविच्य सर्वग्रहाशक्तौ मंदधिया तद्यथार्थस्वरूपमनुभूयता मित्यर्थः ॥२६॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनात्रि

गोत्रसमुद्भूतेन लिङ्गनसोमयाजिना विरचितेयं नाटकदीप-

प्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति नाटकदीपप्रकरणम्।