पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

ब्रह्मानन्दे योगानन्दाख्य प्रकरणम् ॥ ११॥

 यद्यपि ब्रह्मनन्दाख्यस्यास्य ग्रंथस्य पूर्वग्रंथादत्यन्तं पार्थक्यं प्रतीयते परिशीलनशालिनाम् तथापि तृप्तिदीपे प्रदर्शितायास्तृप्तेरनन्तरमाविर्भूतस्याखंडफलभूतस्यानंदस्य विस्तरेण स्वरूपप्रदर्शनायामुं गन्थमारभते ब्रह्मानन्देत्यादिना। अस्मिन् ग्रन्थे आनन्दस्य त्रिविधत्वेन विभजनतत्राद्यस्य पुनस्त्रैविध्येन विभजनादानन्दस्य पंचविधत्वम् सिद्धम् । तत्रादिभूतब्रह्मानन्दस्यावान्तरभेदत्रयमाद्यप्रकरणत्रयेण विवृतम् । अवशिष्टं प्रकारद्वयं क्रमेण चतुर्थपंचमयोरित्यध्यायसंगतिरक्गन्तव्या । अस्य पृथग्ग्र न्थत्वसंभावनायामप्येद्ग्रंथमन्तरा पूर्वग्रन्थजनिताकांक्षायाः स्वरसतो निवृत्त्यभावे नैतद्ग्रन्थघटित एक एव ग्रन्थ इति निश्चित्यैतेन साकमाहत्य पंचदशप्रकरणानि भवन्तीति पंचदशीति नामापि प्रसिद्धिमगमदित्यादि सुधीभिराकलनीयम् ।

ब्रह्मानन्दस्य सर्वानर्थहननपूर्वकसुखहेतुत्वकथनम् ।

ब्रह्मानन्दं प्रवक्ष्यामि ज्ञाते तस्मिन्नशेषतः ।
ऐहिकामुष्मिकानर्थव्रातं हित्वा सुखायते ॥१॥

 ब्रह्मानन्दं ब्रह्म चासावानन्दश्चेति तथाभूतमानंदस्वरूपं ब्रह्म "आनन्दो ब्रह्मेति व्यजनात्” (तै. ३-६) इति श्रुतेः । प्रतिपाद्यप्रतिपादकयोरभेदात्तत्प्रतिपादको ग्रन्थो ब्रह्मानन्दः; तं प्रवक्ष्यामीति प्रतिजानीते । अनेनास्य ग्रंथस्य ब्रह्मानन्दो विषयः । तद्ज्ञानं प्रयोजनमित्युक्तप्रायम् । तद्ज्ञानस्य प्रयोजनत्वं विशदयति, ज्ञात इति । तस्मिन् प्रतिपाद्यप्रतिपादकयोरभेदादेतत्प्रतिपाद्ये ब्रह्मरूपानन्दे इत्यर्थः ज्ञाते सति, ऐहिकामुष्मिकानर्थव्रातं, ऐहिका इहलोके भवा आध्यात्मिकाधिभौतिकाधिदैवताः, आमुष्मिकाः परलोके भवास्तापास्तेऽनर्थास्तेषां व्रातं समूहृमशेषतो

56