पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४४
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

अविद्यानिवृत्तौ प्राप्यते । अत्र प्राप्तिशब्देन स्वस्वरूपज्ञानोपलब्धिरेवाभिधीयते । न तु पूर्वालब्धलाभः ।

 एवं तैत्तिरीयकश्रुत्यर्थमुदाहृत्य श्रुत्यन्तरमर्थतः पठति शोकमिति । एवमात्मविद्यो मन्त्रोपदिष्टं सर्वं विकारजातं कर्मकार्यमपावृत्य ब्रह्मभिन्नात्मस्वरूपं वेत्ति स आत्मविच्छोकं संसारं तरत्यतिक्रामति । “मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदि"ति (छां.७.१.३), श्रुतेः ।

 एवं ब्रह्मप्राप्तेरिष्टप्रापकत्वमनिष्टनिवारकत्वं च श्रुतिद्वयेन प्रतिपाद्य प्रतिज्ञात परावाप्तिहेतुप्रतिपादनपरं “रसो वै सः रसग्ह्येवायं लब्धाऽऽनंदी भवती"ति (तै.२-७) वाक्यमर्थतः पठति, रस इति । रसो ब्रह्म, निरतिशयसुखावाप्तिहेतुभूतस्य ब्रह्मणो मुख्यतयाऽऽस्वादनविषयत्वात्तस्यानन्दरूपत्वमभिहितम् । अयं तत्त्वविद्रसं ब्रह्म लब्ध्वा साक्षात्कृत्यानन्दी 'धन्योहं धन्योहं कर्तव्यम् मे न विद्यते किं चित् । धन्योहं धन्योहं प्राप्तव्यं सर्वमद्य संपन्न"मित्यानन्दी आनन्दवान्भवति । अन्यथा साधनान्तराश्रयेणानन्दी न भवति ॥२॥

 "यदाह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दतेऽध सोऽभयं गतो भवति।" यदाह्येवैष एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवती”ति (तै.२.७.) वाक्यद्वयार्थपठनेन ब्रह्मज्ञानस्यनिष्टनिवार= कत्वमन्वयव्यतिरेकाभ्यां दर्शयति, प्रतिष्ठामिति ।

प्रतिष्ठां विन्दते स्वस्मिन् यदा स्यादथ सोऽभयः ।
कुरुतेऽस्मिन्नंतरं चेदथ तस्य भयं भवेत् ।। ३ ॥

 यदा मुमुक्षुः ब्रह्मभिन्ने स्वास्मिन् प्रत्यगात्मनि प्रतिष्ठां प्रकर्षेण संशयविपर्ययराहित्येन स्थितिं ब्रह्माहमस्मीत्यवस्थानं प्रतिष्ठा तां विन्दते आप्नोति ब्रह्मनिष्ठो भवतीत्यर्थः । अथ सोऽभयः द्वितीयात्पतनभीतिविरहितो भवति, तस्याभावादित्यर्थः। अस्मिन्नद्वितीये ब्रह्मणि, अन्तरमुपास्योपासकादिद्वैतनिपीडितं भेदं कुरुते चेत्पश्यति चेदथ तस्य भयं भवेत् सांसारिकं दुःखं भवेत् । यत्र द्वैतम् पश्यति तत्र भयं भवतीति भावः ॥३॥