पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४६
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 एवं साध्वसाधु कर्मणी सन्तापकारणत्वेन यो विद्वान् जानाति स द्वे कर्मणी पुण्यापुण्यरूपे हित्वाऽपहाय संन्यस्येत्यर्थः । सदा आत्मानं स्मरेच्चिन्तयेत्। किं नाम कर्मणोर्हानम् ? कर्माचरणस्यास्यन्ताभाव आहोस्वित्तन्मिथ्यात्वज्ञानसिद्धिः ? नाद्यः । आत्मनो ब्रह्मात्वेनावगतत्वेऽपि देहेन्द्रियव्यापाराणामत्यन्ताभावस्यासंभवात् । द्वितीय इष्टापत्तिरित्यंगीकृत्य तत्फलमाह, कृत इति । पूर्वस्मिन् जन्मन्यस्मिन् जन्मनि वा कृते आचरिते पुण्यपापे कर्मणी स्वात्मरूपेणैव एष पश्यति । परमात्मस्वरूपेणैव ते अनुसंदधाति । ब्रह्मविदः पुण्यपापे स्वरूपेणापि न विद्यते । एवं सति का कथा तच्चिन्ताकृतस्य सन्तापस्येति भावः ॥ ६ ॥

 ननु प्राक्तनानन्तजन्मसमासादितेषूपभोगेनैव क्षयशीलेषु सत्स्वसंख्याकेषु कर्मसु तच्चिन्ता दुरन्तैव स्यादित्याशंक्य मौम्डकवाक्येन (२.२.८.) समाधत्ते, भिद्यत इति ।

भिद्यते हृदयग्रंथिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ७॥

 तस्मिन् परावरे यस्मात्परमत्यन्तोत्कृष्टोऽभ्युदयः अवरं निकृष्टं भवति तस्मिन् परमात्मनि दृष्टे साक्षात्कृते सति हृदयग्रन्थिर्हृदयस्य बुद्धेर्ग्रन्थिश्चिदात्मना सह दृढसंश्लेषरूपोऽन्योन्थाध्यासः ग्रन्थिसदृशत्वाद्ग्रन्थिरियुच्यते; तादृशो मायापाशः अविद्यावासनाप्रचयो भिद्यते नश्यति । सर्वसंशयाः सद्वस्त्वस्तीत्येके नास्तीति चैके; कोऽयमात्मा देहादिव्यतिरिक्तो न वा; कर्तृत्वभोक्तृत्वाद्यभिमानी, उत केवल कर्तृत्वाभिमानी वा; जीव एको वा नाना/ वा; जगज्जीवेश्वरादयः सत्या असत्या वे तयाद्यकारकाः संशयाश्छिद्यन्ते विच्छिन्ना भवन्ति । अस्य कर्माण्यनारब्धान्यना रब्धफलानि पूर्वजन्मकृतान्यस्मिन् जन्मनि ज्ञानोत्पत्ते: प्राक् कृतानि संचितानि पुण्यपापकर्मफलानि क्षीयन्ते नश्यन्ति । आगामि च नश्यति । आगामिनाशश्च तदश्लेषरूप एवेति भावः । “तदधिगाम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात्" (ब्र.सू.४.१.१३), "इतस्याप्येवमसंश्लेष: पातेतु",(ब्र.सू.४.१.१४.) “अनारब्धकार्यं एव तु पूर्वे तदवधेः, (ब्र. सू.४.१. १५) इति सूत्रेभ्यः ।। तत्र प्रथमं सूत्रं संचितविषयम् द्वितीयमागमिविषये; तृतीयन्तु प्रारब्धविषयमिति