पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
कल्याणपीयूषव्याख्यासमेता

विवेकः । देहारंभकाणि तु देहान्त एव विनश्यन्तीति न तेषामत्र क्षयो विवक्षितः ॥७ ॥

 "नन्वेतमेव तपेन्नैषा चिन्ता कर्माग्निसंभृते"त्युक्तिरसमंजसा, कर्मणोऽपि मुक्तिहेतुत्वात्, “‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतग्ंसमाः” (ईश-२. .) विद्यां चाविद्यां च यस्तद्वेदोभयग्ं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते” (ईश. १. ११.) "कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इत्यादिश्रुतिस्मृतिशतै: केवलस्य वा ज्ञानसमुच्चितस्य वा कर्मणो मुक्ति- हेतुत्वमुद्धोषितमित्याशंक्य मुक्तेः साधनान्तरनिरपेक्षत्वविवक्षया “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाये“ति (श्वे. ६. १५.) श्रुतिमर्थतः पठति, तमिति ।

तमेव विद्वानत्येति मृत्युं पन्था न चेतरः ।
ज्ञात्वा देवं पाशहानिः क्षीणैः क्लेशैर्न जन्मभाक् ॥८॥

 विद्वान् ज्ञानी तं मृत्युं संसारशोकमत्येत्यतिक्रम्य एति याति, तरतीत्यर्थः। इतरो ज्ञानादन्यः पन्था अयनाय नैव विद्यते । देवं स्वप्रकाशं परं ब्रह्म ज्ञात्वा साक्षात्कृत्य पाशहानिः, पाशः अविद्यास्मितारागद्वेषाभिनिवेशरूपाः पञ्च तेषां हानिर्विच्छेदो भवति । क्षीणैर्नष्टैः क्लेशैरैहिकामुष्मिकानर्थैर्जन्मभागन्यस्य जन्मनो भागनुभविता न भवति । जन्मनिमित्तस्यानारब्धफलस्य सर्वकर्मणः विनष्टत्वादित्यर्थः । "ज्ञात्वा देवं सर्वपाशापहानिः, क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः" (श्वे. १-११, इति श्रुतेः ॥ ८॥

 नन्वात्मविदः शोकसन्तरणं केवलशास्त्रप्रसिद्धं नत्वनुभवसिद्धम्, तस्या- पीष्टानिष्टप्रवृत्तिनिवृत्त्योर्विद्यमानत्वादित्याशंक्य, दृढतरज्ञानवतां तदभाव एवेति, "अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहती "त्याशयिकाम् (कठ. १. २. १२.) श्रुतिमर्थतः पठति, देवमिति ।

देवं मत्वा हर्षशोकौ जहात्यन्नैव धैर्यवान् ।
नैनं कृताकृते पुण्यपापे तापयतः क्वचित् ॥ ९ ॥

 धैर्यवान् हर्षशोकादिकारणेषु सत्स्वपि मनसो निर्विकारत्वं धैर्यम्, तद्वान्