पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५०
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 “यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभि संविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मे” ति (तै. ३.१.)ब्रह्मलक्षणं ब्रह्मणस्तटस्थलक्षणं पुत्रो भृगुः पितुर्वरुणाच्छ्रुत्वा विज्ञाय स्वयं तपस्तप्ताऽन्नप्राणमनोबुद्धीस्तदाख्य- कोशानुक्तलक्षणासंभवेनाब्रह्मत्वनिश्चयेन त्यक्त्वान्ते “ब्रह्मपुच्छं प्रतिष्टे"ति (तै.३.) श्रुतिसिद्धमानन्दं ब्रह्मलक्षणयोजनया ब्रह्मेति विजिज्ञिवान् समग्रतो ज्ञातवान् ॥ १२ ॥

 आनन्दे ब्रह्मलक्षणयोजनपरा"मानन्दाद्ध्येव खल्विमानि भूतानि जायन्ते, आनन्देन जातानि जीवन्ति, आनन्दं प्रयन्त्यभिसंविशन्ती"ति (तै. ३. ६.) श्रुतिमर्थतः पठति, आनन्दादिति ।

आनन्दादेव भूतानि जायन्ते तेन जीवनम् ।
तेषां लयश्च तत्रातो ब्रह्मानन्दो न संशयः ॥ १३ ॥

 आनन्दादेव सर्वाणि भूतानि जायन्ते । तेनैव जातानां सर्वेषां जीवनं भवति। सुषुप्तिसमये तेषां लयश्च तत्रानंद एव, सर्वेन्द्रियाणां मनसा सहोपरमात्।। अतस्सुषुप्तौ प्रतिदिनमनुभूयमानः सर्वभूतसंभावित आनंदो ब्रह्मानंदः। तत्र न संशयः । अत्रानन्दमयकोशेऽनुभूयमान आनन्दः बिंबभूत आनन्दो गृह्यते, सर्व- प्राण्यनुभवसिद्धत्वात् ॥ १३ ॥

 "यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे"ति (छाम्. ७.२४.१.) छांदोग्यश्रुत्यर्थं संक्षेपतो निक्षिपन् बृहिधात्वर्थभूतं ब्रह्मशब्दार्थ व्युत्पादयति, भूतेति ।

भूतोत्पत्तेः पुरा भूमा त्रिपुटीद्वैतवर्जनात् ।
ज्ञातृज्ञानज्ञेयरूपा त्रिपुटी प्रलये हि न ॥ १४॥

 भूतोत्पत्तेराकाशादिपंचमहाभूतानां तत्कार्याणां सर्वप्राणिजातानामुत्पत्तेर्नामरूपाभ्यां व्याकरणात्पुरा त्रिपुटीद्वैतवर्जनात् त्रयाणां पुटानामाकाराणां समाहारस्त्रिपुटी, सैव द्वैतं, तस्याभावात्, देशकालवस्त्वपरिच्छन्नो निरतिशयः परमात्मा भूमै- वासीदित्यध्याहारः । त्रिपुटीं विवृणोति, ज्ञात्रिति । ज्ञातृज्ञानज्ञेयरूपा। ज्ञाता कर्ता, ज्ञानं क्रिया, ज्ञेयं तद्विषयः । एवं विलक्षणभागत्रयात्मिका त्रिपुटी । सा