प्रलये नो, नास्ति ।। अत्र भूम्नो ज्ञेयत्वं निषिध्यते । तच्चान्यज्ञेयत्वमाहोस्विस्वज्ञेयत्वम् । न द्वितीयः ।“ब्रह्म स्वं जानाती” त्युक्ते युगपत्कर्मकर्तृव्यपदेशस्य भेदव्याप्यत्वेन स्वकर्तृकदर्शनादिक्रियायास्स्वविषयत्वस्य सर्वथाऽप्रसिद्धत्वेन प्रतियोग्यप्रसिद्धे: । आद्य इष्टापत्तिरेव । भूम्न्यन्यदर्शनविषयत्वाभावस्य "विज्ञातारमरे केन विजानीयात्” (बृ. ४. ५. १५) “अदृश्येऽनात्म्येऽनिलयने" (तै. २. ७.) इत्यदिश्रुतिप्रतिपादितत्वात् । ननु श्रुतौ "यत्रान्यदि"त्युक्त्या यत्रान्यशब्दाभ्यां भिन्नवस्तुसत्ता प्रतीयत इति चेन्न, बोधृबोधनायाविद्यावतां भाषयैवं श्रुत्योपदिष्टत्वात् । यथाऽद्वितीयब्रह्मबोधनाय द्वैतमात्रोपजीव्यया "एकमेवाद्वितीय"मित्यादिभाषया द्वैतविरोध्यद्वैतब्रह्मप्रतिपादनं तद्वदिहाप्यद्वितीयस्य भूम्नस्तद्विरोधिद्वैतोपजीव्ययाऽविद्वद्विषयया भाषया "यत्रान्यदि"त्येवंरूपेण प्रतिपादनम् । विद्वद्दृष्ट्यनुसारेण पर्यालोचने वस्तुभूतायाः श्रुतेरप्यसंभवेन तेन विवक्षितार्थप्रतिपादनमपि न संभवत्येवेति ध्येयम् ॥ १४॥
ज्ञातृज्ञानज्ञेयामां स्वरूपमाह, विज्ञानेति ।
विज्ञानमय उत्पन्नो ज्ञाता ज्ञानं मनोमयः । |
उत्पन्नः बुद्ध्युपाधिकश्चिदाभासो विज्ञानमयो ज्ञाता, मनोमयः मनसि प्रतिबिंबितं चैतन्यं ज्ञानं, मनसः सर्वज्ञानसाधनत्वात्, बाह्यश्शब्दादयो ज्ञेया ज्ञानविषयाः, एवं कार्यस्वरूपत्वादेतत्त्रयं जगत उत्पत्तितः पुरा नास्ति । एतत्त्रयस्य जगदन्तःपातितया तदुत्पत्तेः प्राक् तद्रूपेणाभावः स्पष्ट एवेति भावः ॥ १५॥
जगदुत्पत्तेः प्राक् ज्ञातृत्वादित्रिपुट्या अभावेऽद्वैतानंद एवानुभूयत इति समाधिमूर्छादिदृष्टान्तमुखेनाह, त्रयेति ।
त्रयाभावे तु निर्द्वैत: पूर्ण एवानुभूयते । |
त्रयाभावे ज्ञात्रादित्रयाभावे तु निर्द्वैतः पूर्ण आनन्दः समाधिसुप्तिमूर्छासु यथाऽनुभूयते तथा सृष्टे: पुराऽनुभूयते ॥ १६ ॥
भूम्नो निरतिशयसुखस्वरूपत्वमन्वयव्यतिरेकाभ्यां छांदोग्यवाक्येन (७, २३.१) प्रदर्शयति, य इति ।