पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५२
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

यो भूमा स सुखं नाल्पे सुखं त्रेधा विभेदिनि ।।
सनत्कुमारः प्राहैवम् नारदायातिशोकिने ।। १७ ॥

 यो भूमाऽपरिच्छिन्नबहुत्वकः स सुखमद्वितीयानन्दः। त्रेधा विभेदिनि ज्ञातृज्ञानज्ञेयरूपत्रिविधभेदविशिष्टे हेतुगर्भविशेषणमेतत्, अत एवाल्पे सातिशये परिच्छिन्नो सुखं न । “सोहं भगवो मन्त्रविदेवास्मि नात्मविदि"ति (छां,७.१.) अतिशोकिने नारदाय "यो वै भूमा तत्सुखमि"त्यादि सनत्कुमारः प्राह उप दिदेश ॥ १७ ॥

 विविधनिगमागमवैदुष्यविराजमानस्यांपि नारदस्यात्मज्ञानाभाव एव । शोककारणमित्याह, सपुराणानिति ।

सपुराणान् पंचवेदान् शास्त्राणि विविधानि च।
ज्ञात्वाप्यनात्मवित्त्वेन नारदोऽतिशुशोच ह ॥ १८॥

 सपुराणान् भारतादिभिः पुराणैस्सहितान् पंचवेदान् ऋग्यजुस्सामाधर्वणाश्चत्वारो वेदाः पुराणग्रंथेन सह पञ्च भवन्ति, विविधानि शास्त्राणि च ज्ञात्वाप्यनात्मवित्त्वेन नारदोऽतिशुशोच । हेति खेदे । तेन नारदस्य निरतिशयश्शोकस्सूचित: ॥ १८॥

 आत्मज्ञानाभावे केवलशास्त्रवैदुष्यं पूर्वतोऽप्यधिकदुःखजनकमित्याह,वेदिति।

वेदाभ्यासात्पुरा तापत्रयमात्रेण शोकिता ।
पश्चात्त्वभ्यासविस्मारभंगगर्वैश्च शोकिता ॥ १९ ॥

 वेदाभ्यासात्पुरा तापत्रयमात्रेणाधिभौतिकाध्यात्मिकाधिदैवतरूपतापत्रयेणैव शोकिता सन्ताप आसीत् । पश्चाद्वेदाभ्यासानन्तरं त्वभ्यासविस्मारभंगर्वैश्शोकिता भवति । भम्गश्शास्त्रार्थचर्चास्वधिकात्पराभवः तेन पूर्वोक्ततापत्रयं समुच्चीयते ॥ १९

 ब्रह्मज्ञानमेवापारशोकस्य सन्तरणोपाय इति नारददृष्टान्तेनाह,स इति ।

सोऽहं विद्वन् प्रशोचामि शोकपारं नयात्र माम् ।