पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५४
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 अद्वैते सुखं मास्तु । अद्वैतं न सुखाधिकरणमित्यस्माकमपीष्टमेव । किंत्वद्वैतमेव सुखम्। तच्च न वृत्तिरूपं किन्तु स्वरूपभूतम् । सर्ववृत्तीनां विलयात् अद्वैताभिन्नं सुखमिति भावः । तत्र मानं किमिति शम्क्यते चेत्स्वयंप्रभे स्वयंप्रकाशे वस्तुनि मानाकांक्षा नास्ति । न हि दीपान्तरमपेक्षते दीपप्रकाशः ॥ २३॥

 नन्वद्वैतस्य स्वप्रकाशत्वेऽपि मानाभाव एवेस्याशंक्याह, स्वप्रभत्व इति ।

स्वप्रभत्वे भवद्वाक्यं मानं यस्माद्भवानिदम् ।
अद्वैतमभ्युपेत्यास्मिन् सुखं नास्तीति भाषते ॥२४ ॥

 अद्वैतस्य स्वप्रभत्वे भवद्वाक्यं "अद्वैतेऽप्यस्ति नो सुख"मिति वाक्यमेव मानम् । तत्र कारणमाह यस्मादिति । यस्मादिदमद्वैतमभ्युपेत्यास्मिन्नद्वैते सुखं नास्तीत्येवं भवान् भाषते । भवत्येवं वदति स्वप्रकाशं चैतन्यमेव स्फुरति, अन्यथैवं भाषणस्यासंभवात् । अतः स्वप्रकाशस्य न मानापेक्षेति भावः ॥ २४ ॥ न मयाऽद्वैतमंगीक्रियते किन्तु भवदुक्तिमेवानुवदन् दूषयामीति प्रतिवादिमुखेन वक्ति, नेति ।

नाभ्युपैम्यहमद्वैतं तद्वचोऽनूद्य दूषणम् ।
बच्मीति चेत्तदा ब्रूहि किमासीद्दैततः पुरा ॥ २५॥

 अहमद्वैतं नाभ्युपैमि किन्तु 'यो भूमा स सुख'मिति तद्वचोऽनूद्य तत्र दूषणं वच्मि अद्वैतस्य स्वप्रकाशत्वं प्रतिपिपादयिषुरद्वैतानङ्गीकारिणं प्रथमतोऽद्वैत- मङ्गीकारयति विकल्पपूर्वकं तदेति तदा द्वैततः पुरा किमासीदिति ब्रूहि ॥ २५॥

 अङ्गीकरणानुकूलतया विकल्पते, किमिति ।

किमद्वैतमुत द्वैतमन्यो वा कोटिरन्तिमः।
अप्रसिद्धो न द्वितीयोऽनुत्पत्तेश्शिष्यतेऽग्रिमः ॥ २६ ॥

 द्वैतोत्पत्तेः पुरा किं स्यादद्वैतमुत द्वैतमन्यो द्वैताद्वैतविलक्षणो वा ? तेषां मध्येऽन्तिमः पक्षो द्वैताद्वैतविलक्षणरूपोऽप्रसिद्धोऽसंभावितपूर्वः । सृष्टे: प्राक्स्वस्यानुत्पत्तेर्द्वितीयो द्वैतं न स्यात् । अतोऽग्रिमः प्रथमः पक्षोऽद्वैतं शिष्यते ॥२६॥