पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५६
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

दृष्टान्तः परसुप्तिश्चेदहो ते कौशलं महत् ।
यः स्वसुप्तिं न वेत्त्यस्य परसुप्तौ तु का कथा ॥ ३० ॥

 परसुप्तिरद्वैतदर्शने दृष्टान्तश्चेदहो परसुप्तिग्रहणसमर्थं ते कौशलम् महदिति । परिहासः । अननुभूयमानस्य दृष्टान्तत्वकथनसंगतेः यः स्वसुप्तेरननुभूयमानत्वमभ्युपैति तेन परसुसुप्तेरननुभूयमानत्वस्यावश्यमभ्युपेयत्वेन तद्दष्टान्तकथनं परिहासास्पदमित्यहोशब्दसूचितं परिहासं विशदयति—य इति, यः स्वसुप्तिम् न वेत्ति अस्य परसुप्तौ का कथा । परसुप्तिं न वेत्तीति किमु वक्तव्यमित्यर्थः । अज्ञातस्य दृष्टान्तीकरणं तवासंबद्धमिति भावः ॥ ३०॥

 ननु परसुप्तेरनुभवं न ब्रूमः । किंत्वनुमानेन साधयामः । तेन सिद्धां परसुप्तिं दृष्टान्तीकुर्म इति वदन्तं तन्निराकरणव्याजेन स्वसुप्तेः स्वप्रभत्वं बलात्कारेणाङ्गीकारयति, निश्चेष्टत्वादिति ।

निश्चेष्टत्वात्परस्सुप्तो यदहमिति चेत्तदा ।
उदाहर्तुस्सुषुप्तेस्ते स्वप्रभत्वं बलाद्भवेत् ॥ ३१ ॥

 "परस्सुप्तो निश्चेष्टत्वाद्यथाऽह"मित्यनुमानेन परसुप्तिसिद्धिरिति चेत्तथैवमुदाहर्तुर्दष्टान्तत्वेन प्रदर्शयतस्ते सुषुप्तेः स्वप्रभत्वं बलात्तवानिष्टमप्युदाहरणसामर्थ्याद्भवेत् ॥ ३१॥

 स्वप्रभत्वं बलादायातीत्यमुमर्थं विशदयति, नेति ।

नेन्द्रियाणि न दृष्टान्तस्तथाप्यङ्गीकरोषि ताम् ।
इदमेव स्वप्रभत्वं यद्भानं साधनैर्विना ॥ । ३२ ॥

 सुषुप्तिग्राहकाणीन्द्रियाणि न सन्ति, तदा तेषां स्वकारणे विलीनत्वात् । कोऽपि दृष्टान्तश्च न लभ्यते । प्रकृते स्वसुप्तेस्साध्यत्वेन दृष्टान्तत्वासंभवात् । परसुप्तेः पूर्वानुमानेनासिद्धेरिति भावः । तथाऽपि तां सुप्तिमङ्गीकरोषि । एवं च साधनैर्विना ज्ञानोत्पादकानां प्रमाणानामभावेऽपि यद्भानं विद्यते, तदिदमेव स्वप्रभत्वम् भवति । दृष्टान्तावभासितदार्ष्टान्तिकत्वम् द्वैतविषयः । न तु स्वयंप्रकाशस्य साक्षिण इत्यभिसंधिः ॥ ३२ ॥